________________
विशेषा
॥११४४॥
कैम्हि नमोक्कारोऽयं बाहिरवत्थुम्मि कत्तुराहारो । नेगम-ववहारमयं जीवादावट्ठभेयम्मि ॥ २९०० ॥
जं सो जीवाणन्नो तेण तओ जत्थ सो वि तत्थेव । एगम्मि अणेगेसु य जीवाजीवोभएसुं च ॥२९०१॥
व्याख्या-- कस्मिन् वस्तुन्याधारभूते नमस्कारोऽयं भवतीति विनेयेन पृष्टे गुरुराह- नैगम-व्यवहारमतं तावदिदम्- अष्टभेदे पूर्वोक्तभङ्गाष्टकनिर्दिष्टे नमस्कनुजीवस्याधारभूते जीवादौ बाह्यवस्तुनि नमस्कारो भवतीति । कस्मात् पुनर्नमस्कर्तृजीवाधारे वस्तुन्ययं भवति ? इत्याह- 'जमित्यादि' यस्मादसौ नमस्कारो नमस्कर्तृजीवादनन्यस्तेन तस्मात् तकोऽसौ नमस्कजीवो यत्रैकस्मिञ्जीवे, अजीवे, उभये वा; अनेकेषु जीवेषु, अजीवेषु, उभयेषु वा भवति, सोऽपि नमस्कारस्तत्रैव स्यात् , अन्यथाऽभेदायोगादिति ॥२९००।२९०१॥
एवमुक्ते पूर्वापरविरोधमुद्भावयन्नाह-- नेणु नेगमाइवयणं पुजस्स तओ कहं न तत्थेव । तस्स य न य तम्मि तओ धन्नं व नरस्स खेत्तम्मि॥२९०२॥
ननु नैगमादिवचनं पूर्वमेवं व्याख्यातम्- पूज्यस्य संबन्धी तकोऽसौ नमस्कारः, तत् कथमसौ तत्रैव पूज्ये न भवति । सत्यम् , 'तस्स यत्ति' तस्यैव पूज्यस्य नैगमादिमतेन नमस्कार इति मन्यामहे, न हि किश्चिद् विस्मृतमिदम् , केवलं 'न य तम्मि तउ त्ति' तस्मिन्नेव पूज्ये तकोऽसौ नमस्कार इति न नियमः। न हि यद् यस्य संबन्धि तस्य स एवाधारः, अन्यथापि दर्शनात् , यथा धान्य भवति देवदत्तादिनरस्य संवन्धि, न च तत् तत्रैव, किन्तु क्षेत्र आधारभूते तदिति ।। २९०२ ॥
संग्रहमतेन नमस्कारस्याधारमाह
सामन्नमत्तगाही स-परजिए-यरविसेसनिरवेक्खो । संगहनओऽभिमन्नइ आहारे तमविसिट्ठम्मि ॥२९०३॥ व्याख्या- पूर्ववत् , नवरमविशिष्टे सामान्ये आधारे संग्रहस्तं नमस्कारं मन्यत इति ॥ २९०३ ॥ एतदेव भावयति
1 कस्मिन् नमस्कारोऽयं वाझवस्तुनि कर्तुराधारः । नैगम-व्यवहारमतं जीवादावष्टभेदे ॥ २९००॥
यत् स जीवानन्यस्तेन सको यत्र सोऽपि तत्रेव । एकस्मिझनेकेषु च जीवा-उजीवो-भयेषु च ॥ २९.१॥ २ ननु नैगमादिवचनं पूज्यस्य ततः कथं न तत्रैव । तस्य च न च तस्मिन् सको धान्यमिव नरस्य क्षेत्रे ॥ २९०२ ॥ ३ सामान्यमानमाही व परजीवे तरविशेषनिरपेक्षः । संग्रहनयोऽभिमन्यत आधारे तदविशिष्टे ॥ २९०३ ।।
उपखलासकासार
११४४॥
।
For Personal and
Use Only