________________
विशेषा.
त्तिः
।
॥११४१॥
ने य दिट्ठफलत्थोऽयं जुत्तो पुज्जस्स वोवगाराय । किंतु परिणामसुद्धी फलमिटुं सा य पूजयओ ॥२८९०॥ कत्तुरहीणत्तणओ तग्गुणाओ तप्फलोवभोगाओ । तस्सक्खओवसमओ तज्जोगाओ य सो तस्स ॥२८९१॥
व्याख्या- ननु पूज्यस्यैव पूजालक्षणं फलं प्रत्यक्षतो दृश्यते न तु पूजकस्य, ततः 'तत्फलाभावात्' इत्यसिद्धो हेतुः । एवं नैगमादिवादिना प्रोक्त ऋजुमूत्रः पाह-न तत् तस्य पूज्यस्य पूजालक्षणं फलम् , अनुपजीवित्वात् , यथा नभसः । इह यो यस्यानुपजीवी न तत् तस्य फलम् , यथा नभसो दह्यमानागुरु-कर्पूरादिधूमपटलप्रसरत्सुमनोगन्धादिफलं न भवति, किन्तु तदुपजीवकस्य देवदत्तादेरेव, अनुपजीवी च पूजाया वीतरागः, अतो न तस्य तत् फलम्, किन्तु पूजकस्यैवेति । न च दृष्टमेव प्रत्यक्षं पूजादिकं फलमर्थः प्रयोजनं यस्यासौ दृष्टफलार्थोऽयं नमस्कर्तुनमस्कारः, नापि च पूज्योपकारायासौ, किन्त्वनन्तरं परिणामविशुद्धिः फलमिष्ट नमस्कारस्य, परम्पराफलं तु स्वर्गा-ऽपवर्गादि । सा च परिणामशुद्धिः, तच्च स्वर्गप्राप्त्यादिकं फलं पूजयतः पूजकस्यैव भवति, न तु पूज्यस्येति । तस्मात् स नमस्कारस्तस्य नमस्कर्तुरेव न नमस्कार्यस्येति । ऋजुसूत्रनयपतिज्ञाहेतूनाह- कर्तुरेवाधीनत्वात् , तदधीनतं च तेनैव क्रियमाणत्वादिति । तथा, तद्गुणत्वात् , ज्ञान-शब्द-क्रियारूपत्वेन नमस्कारस्य कर्तुर्गुणत्वादित्यर्थः । तथा, तस्य नमस्कारस्य यत्फलं वर्गादिकं तदुपभोगादिति । तथा, तस्य नमस्कारस्य यः कारणभूतः कर्मक्षयोपशमस्तस्य कर्तवं सद्भावात् , कारणपरित्यागेन च कार्यस्थान्यत्रायोगादिति । तथा, तद्योगात्- तत्परिणामरूपत्वादिति । दृष्टान्तास्तु पश्चखपि हेतुपु 'स्वधनवत्' इत्यादयः स्वयमभ्यूह्या इति ॥ २८८९ ॥ २८९० ॥ २८९१ ।।
अथ शब्दादिनयत्रयमतेन स्वामित्वचिन्तामाह
जे नाणं चेव नमो सदाईणं न सह-किरियाओ । तेण विसेसेण तयं बज्झस्स न तेऽणुमण्णंति ॥ २८९२ ॥
यस्माद् नमो नमस्कारः शब्दादिनयमतेनोपयोगरूपं ज्ञानमेव, न तु शब्द क्रिये, शुद्धत्वेन ज्ञानवादित्वात् तेषामिति भावः । तेन विशेषत एव तं नमस्कार ते शब्दादयो बाह्यस्य जिनेन्द्रादेस्तत्मतिमादेर्वा नानुमन्यन्ते नेच्छन्ति, किन्तु तदुपयोगवतोऽन्तरङ्गस्यैव
१ न च दृष्टफलार्थोऽयं युक्तः पूज्यस्य वोपकाराय । किन्तु परिमाणशुद्धिः फलमिष्टं सा च पूजयतः ॥ २८५० ॥
कर्तुरधीनत्वतस्तद्गुणात् तत्फलोपभोगात् । तस्य क्षयोपशमतस्तद्योगाच स तस्य ॥ २८९१ ॥ २ यज्ञानमेव नमः शब्दादीनां न शब्द-क्रिये । तेन विशेषेण तद् बासस्य न तेऽनुमन्यन्ते ॥ २८१२ ॥
॥११४१॥
SPORPIRNO
For Personal
use only