________________
विशेषा
बृहद्वत्तिः ।
॥११४०॥
ऋजुमूत्र उत्तरमाह-- अस्सेदं ववएसो हवेज्ज दव्वम्मि न उ गुणे जुत्तो । पडयस्स सुक्कभावो भन्नइ न हि देवदत्तस्स ॥२८८६।।
अन्यत्र स्थितेऽपि गवादिके द्रव्येऽन्यत्र स्थितस्यापि देवदत्तादेः 'अस्येदम्' इति स्वामित्वव्यपदेशो भवेद् युज्यते, गुणे त्वयं न्यायो न युक्तः, न हि पटस्य शुक्लभावः शुक्लगुणो देवदत्तस्य भण्यते, सांकर्यैकत्वादिदोषप्रसङ्गादिति ॥ २८८६ ॥
पुनरपि परः प्राहवैवएसाभावम्मि वि नणु सामित्तमणिबारियं चेव । अन्नाधाराणं पि हु सगुणाण व भोगभावाओ ॥२८८७।।
ननु गुणेष्वप्ययं न्यायो दृश्यत एव; तथाहि- अन्याधाराणामपि देवदत्तसंबन्धिपटादिगतानामपि 'शुक्लादिगुणानाम्' इति शेषः, 'देवदत्तस्यैते शुक्लादिगुणाः' इति व्यपदेशाभावेऽपि ननु तस्य तत्स्वामित्वमनिवारितमेव । कुतः ? इत्याह- भोगभावादिति, निजपटादिगतशुक्लादिगुणानां देवदत्तेन भुज्यमानत्वादित्यर्थः । केषां यथा कस्य स्वामित्वम् ? इत्याह- यथा स्वगुणानां रूपादीनां देवदत्तस्य स्वामित्वम् । ततः पूजके स्थितस्यापि नमस्कारस्य यदि पूज्यः स्वामी भवेत् तदा को दोषः ? इति प्रकृतम् ॥ २८८७ ।। ऋजुसूत्रः पाद- तथापि पूज्यस्य नमस्कार इति न मन्यामहे । कुतः ? इत्याह-- ऐवं पि न सो पुज्जस्स तप्फलाभावओ परधणं व । जुत्तो फलभावाओ सधणं पिव पूजयंतस्स ॥२८८८॥
एवमपि न स नमस्कारः पूज्यस्य युक्तः, तत्फलस्य स्वर्गादेरभावात् , परधनवदिति । युक्तः पुनरसौ पूजकस्य, स्वर्गादेः | फलस्य सद्भावात् , स्वधनवदिति ॥ २८८८ ।।
पुनरपि नैगमादिनयमतमाशङ्कय ऋजुमूत्रः परिहरनाह-- नैणु पुज्जस्सेव फलं दीसइ पूजा न पूजयंतस्स । नाणुवजीवित्तणओ तं तस्स फलं जहा नभसो ॥२८८९॥
, अखेदं व्यपदेशो भवेद् मब्वे न तु गुणे युक्तः । पटकस्य शुक्लभावो भण्यते न हि देवदत्तस्य ॥ २८८६ ॥ २ व्यपदेशाभावेऽपि ननु स्वामित्वमनिवारितमेव । अन्याधाराणामपि खलु स्वगुणानामिष भोगभावात् ॥ २८८७ ॥ ३ एवमपि न स पूज्यस्य तत्फलाभावतः परधनमिव । युक्तः फलभावात् खधनमिव पूजयतः ॥ २८८८ ॥ ४ ननु पूज्य येव फलं दृश्यते पूजा न पूजयतः । नानुपजीवित्वतस्तन् तस्य फलं यथा नभसः ॥ २८८९ ॥
W
atchudhi
855
११४०॥
Jan
Only
a
For Personal and
Internation