SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । विशेषा ॥११३९॥ एवं सद्दो किरिया य सह-किरियावओ जओ धम्मो । न य धम्मो दव्वंतरसंचारी तो न पुज्जस्स ॥२८८३॥ व्याख्या- ऋजुसूत्रनयस्येदं मतम्- यद् यस्माज्ज्ञानमुपयोगरूपम् , शब्दो वा 'नमोऽर्हद्भ्यः' इत्यादिकः, क्रिया वा शिरो- नमनादिरूपा नमस्कारो भवेत् ? इति त्रयी गतिः। ततो नहि नैव सर्वथा सर्वैरपि प्रकारैस्तत्कर्तारं विनाऽन्यस्य युक्तः स नमस्कारः। तस्माद् नमस्कर्तृवामिक एवासौ युज्यते, न तु नमस्कार्यस्वामिक इतीह भावार्थः । कुतः ? इत्याह- 'नाणमित्यादि' यदि ज्ञानं नमस्कारस्तदा गुणत्वेन तद् नमस्कर्तृजीवादनन्यदव्यतिरिक्तं वर्तते, तत् कथमर्थान्तरस्य पूज्यस्य नमस्कार्यस्याहदादेः संबन्धी वक्तुं युज्यते।। यदि वा, अघटमानकमप्यभ्युपगम्य ब्रूमः- जीवस्य पूज्यस्यापि संबन्धी तद् भवतु, जीवरहितायास्त्वचेतनायाः प्रतिमायाः कथं वा केन प्रकारेण तद् भवेत् - तस्याः सर्वथा ज्ञानशून्यत्वेन कष्टतरं महासाहसमिदमित्यभिप्रायः । एवं शब्दः क्रिया च यस्माच्छब्दक्रियावतो नमस्कतुर्धर्मः, धर्मश्च न द्रव्यान्तरसंचारी, ततो न पूज्यस्य नमस्कार्यस्य नमस्कार इति ॥ २८८१ ॥ २८८२ ॥ २८८३ ॥ कुतः पुनर्धर्मो द्रव्यान्तरसंचारी न स्यात् ? इत्याहऐवं च कयविणासा-ऽकयागमे-गत्त-संगराईया । अन्नस्स नमोक्कारे दोसा बहवो पसज्जति ॥२८८४॥ एवं बनेन पूजकेन कृते नमस्कारेऽन्यस्य पूज्यस्याभ्युपगम्यमाने बहवो दोषाः प्रसजन्ति । के ? इत्याह- कृतनाशा-कृतागमै-कत्व-संकरादयः । तत्र येन कृतस्तस्यानभ्युपगमात् कृतनाशः, येन च न कृतः पूज्येन, तत्स्वामित्वाभ्युपगमेऽकृतागमः । तथा, द्वयोरप्यभिन्ननमस्कारधर्मकत्वादेकत्वम् , संकरो वा । आदिशब्दात् सहोत्पत्ति-विनाशादय इति ॥ २८८४ ॥ नैगमादिनयवादी पूर्वपक्षयन्नाहजैइ सामिभावओ होज्ज पूयणिजस्स सो तो को दोसो ? । अत्यंतरभूयस्स वि जह गावो देवदत्तस्स ॥२८८५॥ यदि पूजकादर्थान्तरभूतस्यापि पूजनीयस्य पूजके स्थितोऽपि स्वामिभावेन स नमस्कारो भवेत् , तर्हि को दोषः स्यात् ?धर्मस्य द्रव्यान्तरे संचरणाभ्युपगमाद् न कश्चिदित्यर्थः । यथाऽन्यत्र स्थितानामपि गवां देवदत्तः स्वामीति ॥ २८८५॥ एवं शब्दः क्रिया च शब्द-क्रियावतो यतो धर्मः । न च धर्मो नग्यान्तरसंचारी ततो न पूज्यस्य ॥२८॥ २ एवं च कृतविनाशा-कृतागम-कत्व-संकरादिकाः । अन्यस्य नमस्कारे दोषा बहवः प्रसज्ज्यन्ते ॥ २८८४ ॥ ३ यदि स्वामिभावतो भवेत् पूजनीयस्य स तवः को दोषः। भर्थान्तरभूतस्यापि यथा गावो देवदत्तस्य ॥ २८८५॥ ११३९॥
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy