________________
विशेषा. ॥११३८॥
जीवो नमुत्ति तुल्लाऽहिगरणं बेइ न उ स जीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्सेव नन्नस्स ॥२८८०॥
व्याख्या- सामान्यमात्रग्राही संग्रहनयोऽभिमन्यते तमिह नमस्कारम् , संबन्धितया कस्य ? इत्याह- एकस्य । कथंभूतस्य ?। बृहद्वात्तिः। अविशिष्टस्य जीवाजीवविशेषणरहितस्यैकस्यैवाविशिष्टस्य सत्तामात्ररूपस्य संबन्धितया नमस्कारमसौ मन्यते, न तु द्वयोः, बहूनां चेत्यर्थः । अत्रोपपत्तिमाह- 'स-परजिए-यरविसेसनिरवेक्खो त्ति' स्वश्च परश्च स्व-परौ, स्वपरौ च तौ जीवौ च स्व-परजीवौ, तो चेतरेऽजीवाश्च स्व-परजीवे-तराः, तेषां विशेषा एक-द्वि-व्यादयः स्व-परजीवे-तराश्च ते विशेषाश्च स्व-परजीवे-तरविशेषाः, तन्निरपेक्षो यतोऽसौ, ततस्तनिरपेक्षत्वात् सामान्यमात्रस्यैव संग्रहो नमस्कारं मन्यत इति । एतदेव भावयति- 'जीवस्सेत्यादि' जीवस्याजीवस्य वा
खस्य परस्य वा नमस्कारस्येत्येवं विशेषणे कर्तव्येऽभिन्नोऽभेदवानसौ एतर्भेदैनमस्कारं न विशेषयति, किन्तु सामान्यमात्रग्राहित्वात् सामान्यमात्रस्यैव नमस्कारमसौ मन्यत इत्यर्थः। भवत्वेवम् , किन्तु नमःशब्दरूपं नमस्कारं स्वस्वरूपेणाधारादिभेदाद् भिन्नमसौ मन्यते, अभिन्नं वा ? इत्याशङ्कयाह-न च नमस्कारसामान्यमात्रस्याधाारादिभेदेऽपि सदा सर्वकालं स संग्रहनयो भेदमिच्छति, सर्वतः सामान्यमात्रग्राहित्वादिति । अथवा जीवस्य नमस्कार इति षष्ठया भेदनिर्देशं मूलतः संग्रहो न मन्यत एव, किमनया तस्य स्वामित्वचिन्तया? इति दर्शयन्नाह-'जीवो इत्यादि' संग्रहो 'जीवो नमस्कार' इति तुल्याधिकरणां समानाधिकरणतामेव ब्रवीति, न पुनरसौ जीवस्य नमस्कार इति व्यधिकरणमिच्छति, जीव-नमस्काराद्यर्थानां सर्वेषामप्यभेदवादित्वादिति । किमयमेक एव प्रकारस्तस्य ! नेत्याह- 'इच्छईत्यादि' इच्छति वाऽशुद्धतरसंग्रहनयस्तं नमस्कारं संबन्धितया, कस्य ? जीवस्य-जीवसामान्यस्यैव, न पुनरन्यस्याद्यभङ्गरहितस्य शेषसप्तभङ्गीगतस्याजीवादेरिति ॥२८७८॥२८७९॥२८८०॥
अथ ऋजुसूत्रमधिकृत्याहउज्जुसुयमयं नाणं सदो किरिया च जं नमोक्कारो । होज्ज नहि सव्वहा सो जुत्तो तक्कत्तुरन्नस्स॥२८८१॥ नाणं जीवाणन्नं तं कहमत्थंतरस्स पुजस्स । जीवस्स होउ कह वा पडिमाए जीवरहियाए ? ॥२८८२॥
जीवो नम इति तुल्याधिकरण मनीति न तु स जीवस्य । इच्छति वाऽशुद्धतरस्तं जीवस्यैव नाम्यस्य ॥ २८८० ॥ २ मसूत्रमत ज्ञानं शब्दः क्रिया च यद् नमस्कारः । भवेद् नहि सर्वथा स युक्तस्तस्कर्तुरन्यस्य ॥ २८८१ ॥
LO॥११३८॥ ज्ञानं जीवानन्यत् तत् कथमर्थान्तरस्स पूज्यस्य । जीवस्य भवतु कथं वा प्रतिमाया जीवरहितायाः ॥ २८८२ ॥
वडय
Per Personal and
Use Only