SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तथा च सत्यस्य नमस्कारस्योत्पत्तिमत्वादविशुद्ध नैगम-संग्रह-व्यवहारलक्षणं प्रथमनयत्रिकं समुत्थान-वाचना-लब्धिस्वरूपं त्रिविध विशेषा निमित्तमिच्छति । कुतः? इत्याह- 'एत्तो इत्यादि' यद् यस्माद् यतस्विविधाद् निमित्तादन्यथाऽन्येन प्रकारेण नमस्कारस्य नास्ति ॥११२१॥ ADE संभूतिरुत्पत्तिरिति ॥ २८२७॥ तत्र समुत्थानलक्षणं निमित्तं व्याचिख्यासुराह 'देहसमुत्थाणं चिय हेऊ भवपच्चयावहिस्सेव । पुव्वुप्पण्णस्स वि से इहभवभावो समुत्थाणं ॥२८२८॥ सम्यक् संगतं वोत्तिष्ठति जायतेऽस्मादिति समुत्थानम् , देह एव समुत्थानम् , तदेव तावद् हेतुर्निमित्तं 'से' तस्य नमस्कारस्य । आह- यदाज्यमन्यभव एव स्वावरणक्षयादुत्पन्नः स्यात् तदा कथमयं देहो हेतुः ? इत्याशङ्कयाह- 'पुव्वुप्पन्नस्स वि से इहभवभावो समुत्थाणं ति' प्राग्भव उत्पन्नस्यापि नमस्कारस्येहभवभाव इहभवशरीरं समुत्थानं कारणं भवति, एतद्भावभावित्वात् तस्य । दृष्टान्तमाह- 'भवपच्चयावहिस्सेव त्ति' यथा हि भवप्रत्ययोऽवधिस्तीर्थकरादिसंबन्धी प्रागुत्पन्नोऽप्येतद्भवशरीरमन्तरेण न भवति । ततश्चेहभवशरीरं तस्य समुत्थानमेवं नमस्कारस्यापीति । एतदुक्तं भवति- यथा पूर्वोत्पन्ना अपि घटादयो दीपेनाभिव्यज्यन्ते, एवं पूर्वोत्पन्नोऽपि नमस्कार इहभवदेहेनाभिव्यज्यते, इत्यसौ तस्य निमित्तं व्यपदिश्यत इति ॥ २८२८ ।। अत्र परमतमाशङ्कय परिहरन्नाह अण्णे सयमुत्थाणं सविरियमन्नोवगारविमुहं ति । तदजुत्तं तदवत्थे चुयलद्धे लडिओ णणं ॥ २८२९ ॥ अन्ये मूरयः स्वकमुत्थानं स्वमुत्थानं स्ववीर्यमित्याचक्षते । कुतः ? इत्याह- 'अन्नोवगारविमुहं ति' अन्येनापान्तरालवर्तिना कारणान्तरेण कृत उपकारोऽन्योपकारस्तद्विमुखं तन्निरपेक्षं यतोऽनन्तरकारणमित्यर्थः, तस्मादन्योपकारविमुखत्वादनन्तरकारणत्वात् खवीर्यनमस्कारस्य समुत्थानं कारणमिति । एतन्निरासार्थमाह- 'तदजुत्तं ति' तद् वीर्यमयुक्तम् , नमस्कारानन्तरकारणतया व्यभिचारित्वात् । कुतः ? इत्याह- 'तदवत्थे इत्यादि' यतस्तदवस्थेऽपि विद्यमाने वीर्य कस्यापि लब्धोऽपि नमस्कारः स्वावरणोदयात् पुनरपि च्यवते भ्रस्यति; च्युतोऽपि कदाचित् तदावरणक्षयोपशमात् पुनरपि लभ्यते । तत एवं तदवस्थेऽपि वीर्ये च्युतलब्धे नमस्कारे सति , देहसमुत्थानमेव हेतुर्भवप्रत्ययावधेरिव । पूर्वोत्पन्नस्यापि तस्येहभवभावः समुत्थानम् ॥ २८२८ ॥ २ अन्ये खकमुत्थानं स्ववीर्यमन्थोपकाविमुखमिति । तद्युक्तं तवस्थे च्युतलब्धे लम्धितो नान्यत् ॥ २८२९॥ ११२१॥ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy