________________
हदत्तिः
विशेषा० ।।११२२॥
- विज्ञायते- लब्धितो नान्यद् वीर्यं किमपि नमस्कारकारणमस्ति, व्यभिचारित्वात् । व्यभिचारित्वं च नमस्कारस्य तदन्वय-व्यतिरेकाननुविधायित्वात् । लब्धिस्तु तस्याव्यभिचारि कारणम् , तदन्वय-व्यतिरेकानुविधायित्वादिति ॥ २८२९ ।।
तदेवं समुत्थानं व्याख्याय वाचना-लब्धिस्वरूपं व्याचिख्यासुराह-- पैरओ सवणमहिगमो परोवएसो त्ति वायणाऽभिमया । लद्धी य तयावरणक्खओवसमओ सयं लाभो ॥२८३०॥
परतो गुरुभ्यो यत् श्रवणं, तथाऽधिगमः, परोपदेशश्च, सा वासनाऽभिधीयते । लब्धिस्तु का ? इत्याह- परतो वाचनामन्तरेण नमस्कारस्य यः स्वयं लाभः । कुतः पुनर्या लब्धिः ? इत्याह- तदावरणक्षयोपशमात्- नमस्कारावरणकर्मक्षयोपशमादित्यर्थः । आह- ननु तदावरणक्षयोपशम एव लब्धिरन्यत्र प्रसिद्धा, तत् कथमिह तत्कार्यभूतो नमस्कारलाभो लब्धित्वेनोच्यते, नमस्कारकारणस्यैवेह चिन्तयितुं प्रस्तुतत्वाद् यथोक्ताया एव च लब्धेनमस्कारकारणत्वात् ? | सत्यम् , किन्तु तत्कार्यभूतोऽपि नमस्कारलाभोऽत्र लब्धिरुक्ता, कार्य कारणोपचारादिति । एतदविशुद्धनैगम-संग्रह-व्यवहारनयमतेन त्रिविध नमस्कारकारणं मन्तव्यमिति ॥२८३०॥ ऋजुमूत्रमतेन तु द्विविधमेव कारणमिति दर्शयन्नाह--
उज्जुसुयणयमयमिणं पुव्वुप्पन्नस्स किं समुत्थाणं । अह संपइमुप्पजइ न वायणा लडिभिन्नं तं ॥२८३१॥
ऋजुमूत्रनयस्येदं मतम्- यदि पूर्वभवोत्पन्नो नमस्कारः, तदेहभवदेहलक्षणं समुत्थानं तस्य किं करोति ?- न किञ्चिदित्यभिप्रायः, उत्पन्नस्य कारणापेक्षाऽयोगात् । अथ सांप्रतमिहमवे समुत्पद्यते नमस्कारः, तर्हि यस्तस्य कारणं तद् वाचना-लब्धिभ्यां भिन्नं व्यतिरिक्तं न किश्चित् पश्यामः । अत इदमेवं द्विविधं तस्य कारणमिति ॥ २८३१ ॥
इदमेव भावयन्नाह
पैरओ सयं व लाभो जइ परओ वायणा, सय लद्धी । ज न परओ सयं वा तओ किमन्नं समुत्थाणं ॥२८३२॥ नमस्कारस्य हि लाभो जायमानः परतोऽपि भवेत् , स्वयं वा ? इति द्वयी गतिः। तत्र यदि परत इति पक्षः, तर्हि 'वायण
१ परतः श्रवणमधिगमः परोपदेश इति वाचनाभिमता । लब्धिश्च तदावरणक्षयोपशमतः स्वयं लाभः ॥ २८३०॥ २ जुसूत्रनयमतमिदं पूर्वोत्पनस्य किं समुत्थानम् । अथ संप्रत्युत्पद्यते न वाचना-लब्धिभिन्नं तत् ॥ २८३१ ॥ ३ परतः स्वयं वा लाभो यदि परतो वाचना, खयं लब्धिः । यद् न परतः स्वयं वा ततः किमन्यत् समुत्थानम् ॥ २०३२।।
११२२॥
sa.08
Jan E
inema
For Personal and Price Use Only
Howw.jaineibrary.org