SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । PacKPee ति' गुरूपदेशलक्षणा वाचनैव तत्र कारणम् । अथ स्वयमिति पक्षः, तर्हि 'लद्धि त्ति तदावरणक्षयोपशमलक्षणा लब्धिरेव तत्र कारविशेषा Oणं नापरम् । यच्च परतः स्वयं वा नोत्पद्यते 'तत् खरविषाणकल्पमवस्त्वेव' इत्यध्याहारः, वस्तुन उत्पत्तौ यथोक्तप्रकारद्वयस्यैव संभवात् , अनुत्पन्नस्य चावस्तुत्वादिति । ततस्तस्माद् वाचना-लब्धिभ्यामन्यत् किं नाम समुत्थानम् , यत् स्वयं परतो वाऽनुत्पन्नस्यावस्तुनः ||११२३॥ कारणं भवेत् । इति ।। २८३२ ॥ अथ परभवे समुत्पन्नस्य नमस्कारस्येहभवे स्वतः परतो वाऽनुत्पन्नस्य तस्याभिव्यक्तिलक्षणाया उत्पत्तेः कारणं समुत्थान भविष्यति । तदप्ययुक्तम् । कुतः ? इत्याह उप्पजइ नाईयं तक्किरिओवरमओ कयघडो व्य । अहवा कयं पि कीरइ कीरउ निच्चं कओ णिहा ? ॥२८३३॥ इहातीतोत्पादक्रियं वस्त्वतीतमभिप्रेतम् । तदेवंभूतं पूर्वभवेऽतीतोत्पादक्रियमतीत नमस्कारलक्षणं वस्त्विहभवे पुनरपि नोत्पद्यत इति प्रतिज्ञा । 'तकिरिओवरमउ त्ति' तस्य नमस्कारस्योत्पादलक्षणा क्रिया तक्रिया तस्या उपरमो विरामस्तक्रियोपरमस्तस्मादिति हेतुः । कृतघटवदिति दृष्टान्तः । इह यस्योत्पत्तिक्रियोपरता तत् पुनरपि नोत्पद्यते, यथा पूर्वकृतो घटः; उपरतोत्पत्तिक्रियश्च पूर्वभवोत्पन्नो नमस्कार इष्यते, तत इह भवे पुनरपि नोत्पद्यत इति । अथ पूर्व कृतमपि पुनः क्रियते, तर्हि पुनः पुनर्नित्यमेव क्रियताम् , पूर्वकृतत्वाविशेषात् । तथा च सति कुतः करणक्रियाया निष्ठा ? इति । तदेवं य इहोत्पद्यते नासौ पूर्वोत्पन्न इति सामर्थ्यादुक्तम् ॥ २८३३ ॥ अथवा, भवतु पूर्वोत्पन्नः, तथापि मत्पक्षसिद्धिरिति दर्शयन्नाहहोउ व पुव्वुप्पाओ तह वि न सो लद्धि-वायणाभिन्नो । जेण पुरा वि सयं वा परओ वा हुज से लाभो॥२८३४॥ भवतु वा नमस्कारस्य पूर्वजन्मन्युत्पादः, तथापि न स तदुत्पादो लब्धि-वाचनाभ्यां भिन्नः-न लब्धि-वाचनालक्षणकारणद्वयव्यतिरेकेण समुत्थानलक्षणेन कारणेन नमस्कारो जन्यत इत्यर्थः । कुतः ? इत्याह- येन यस्मात् पुरा परभवेऽपि प्रष्टव्योऽसि त्वंस्वयं वा परतो वा 'से' तस्य नमस्कारस्य लाभ इति वक्तव्यम् । यदि स्वयम् , तर्हि लब्धिरेव तत्कारणम् । अथ परतः, तर्हि वाचना तद्धे तुरिति न किमप्येतत् कारणद्वयव्यतिरिक्तं समुत्थानलक्षणं कारणं पश्याम इति ॥ २८३४ ॥ , उत्पद्यते नातीतं तक्रियोपरमतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं कुत्तो निष्ठा ? ॥ २८३३ ।। १ भवतु वा पूर्वोत्पादस्तथापि न स लब्धि-वाचनाभिन्नः । येन पुरापि स्वयं वा परतो वा भवेत् तस्य लाभः ॥२८३४॥ हासeelees ॥११२३॥ PARSAPPS Jain Educationa.Intern For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy