SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।। ११२४ ॥ Jain Education Interna अथ 'सेसनया लद्धिमिच्छंति' इत्येतद् व्यांचिख्यासुराह— सैदाइमयं न लहइ जं गुरुकम्मा पवायणाए वि । पावइ य तयावरणक्खओवसमओ जओऽवस्सं ॥ २८३५॥ तो हेऊ लडि च्चियन वायणा जइ मइक्खओवसमो । तक्कारणोति तम्मि वि ननु साऽणेगंतिगी दिट्ठा ॥ २८३६ ॥ शब्द-समभिरूढै- बंभूतनयानामेतद् मतम् - यद् यस्मात् कारणाद् गुरुकर्मा प्राणी गुरुभ्यः प्रवाचनायां सत्यामपि नमस्कारं न लभते, लघुकर्मा तु वाचनामन्तरेणापि तदावरणकर्मक्षयोपशमाद् यतोऽवश्यमेव नमस्कारं प्राप्नोति । 'तो हेऊ लद्धि च्चिय ति ततस्तस्माद् वाचनाया नमस्कारजनने व्यभिचारित्वात् तदावरणक्षयोपशमलक्षणा लब्धिरेव तद्धेतुर्न वाचनेति । यदि तु ऋजुमूत्रः कथमप्येवं ब्रूयात् ननु मतिज्ञानावरणादिकर्मक्षयोपशमस्तत्कारणो वाचनाजन्यः तथा च सति तत्क्षयोपशमजन्यस्य नमस्कारस्य पारम्पर्येण वाचनापि कारणं भवति । अत्रोच्यते ननु तस्मिन्नपि मतिज्ञानावरणादिकर्मक्षयोपशमे जन्ये सा वाचनाऽनैकान्तिकी दृष्टा, गुरुकर्मणां वाचनातोsपि यथोक्तक्षयोपशमादर्शनादिति ।। २८३५ ।। २८३६ ।। अथ कस्यापि तावद् वाचनातः कर्मक्षयोपशमो भवन्नुपलभ्यते, तमाश्रित्य वाचना नमस्कारकारणं भविष्यति । तदप्ययुक्तम् । कुतः इत्याह जैस्स वि स तन्निमित्तो तस्स वि तम्मत्तकारणं होज्जा । न नमोक्कारस्स तई कम्मक्खओवसमलम्भस्स ॥ २८३७ ॥ यस्यापि जीवस्य स मतिज्ञानावरणादिकर्मक्षयोपशमस्तन्निमित्तो वाचनाहेतुको दृश्यते तस्यापि तन्मात्र कारणं यथोक्तक्षयोपशमनिमित्तं 'तइति' सा वाचना भवेत् न तु नमस्कारस्य कारणं सा युज्यते । कथंभूतस्य । कर्मक्षयोपशमलभ्यस्य । इदमुक्तं भवति एवमपि मतिज्ञानावरणादिक्षयोपशमादेवानन्तरं नमस्कार उत्पद्यते, न तु वाचनातः, ततोऽसावेव तत्कारणं युज्यते, न तु वाचना, तस्या यथोक्तक्षयोपशमजनकत्वेनान्यकारणत्वादिति ॥ २८३७ ॥ १ गाथा २८०७ । २ 'व्याख्यानार्थमाह' | ३ शब्दादिमतं न लभते यद् गुरुकर्मा प्रवाचनायामपि । प्राप्नोति च तदावरणक्षयोपशमतो यतोऽवश्यम् ॥ २८३५ ॥ ततो हेतुर्लब्धिरेव न वाचना यदि मतिक्षयोपशमः । तत्कारण इति तस्मिन्नपि ननु साऽनैकान्तिकी दृष्टा ॥ २८३६ ॥ ४ यस्यापि स तन्निमित्तस्तस्यापि तन्मात्रकारणं भवेत्। न नमस्कारस्य सा कर्मक्षयोपशमलभ्यस्य ॥ २८३७ ॥ For Personal and Private Use Only बृहद्वचिः । ॥११२४॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy