SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ वहा विशेषा० ॥११२५॥ पुनरपि परमतमाशक्य परिहरन्नाहअह कारणोवगारि ति कारणं तेण कारणं सव्वं । पाएण बज्झवत्थु को नियमो समेत्तम्मि ?॥ २८३८ ॥ अह पच्चासण्णतरं कारणमेगंतियं तओ लडिं । पडिवज्ज, न चेदेवं, न वायणामित्तनियमो ते ॥ २८३९ ॥ अथ कारणस्य यथोक्तक्षयोपशमस्योपकारिणी वाचनेति, अतः कारणकारणत्वादसौ नमस्कारस्य कारणमिष्यते । अत्रोच्यते'तेणेत्यादि' तेन तर्हि प्रायेण सर्वमपि क्षिति-शय्या-ऽऽसना-ऽऽहार-वख-पात्रादिकं बाह्यं वस्तु नमस्कारकारणस्य यथोक्तक्षयोपशमस्योपकारित्वात् परम्परया नमस्कारस्य कारणं प्राप्नोति। अतः को नाम वाचनालक्षणे शब्दमात्रे तत्कारणत्वनियमः? इति । अथ परम्परया सर्वस्य वाद्यवस्तुनो नमस्कारकारणोपकारित्वे सत्यपि यदेव प्रत्यासन्नतरं वाचनाक्षलणं वस्तु तदेवासन्नोपकारित्वाद् नमस्कारस्य कारणमिष्यते । ननु तथापि नमस्कारजनने तदेवैकान्तिकमित्युक्तमेव । तत ऐकान्तिकमानन्तर्येणातिप्रत्यासन्नतरं लब्धिमेव तत्कारणं प्रतिपद्यस्व । न चेदेवं प्रतिपद्यसे, तर्हि न वाचनामात्रस्य नमस्कारकारणत्वनियमस्ते तब सिध्यति, क्षित्यादेरपि पूर्वोक्तनीत्या तत्कारणत्वमाप्तः । तदेवं प्रथमनयत्रयस्य त्रिविधं कारणम् , ऋजुमूत्रस्य द्विविधम् , शब्दनयास्तु लब्धिमेबैकां नमस्कारकारणमिच्छन्तीति स्थितम् ॥ इति द्वात्रिंशद्गाथार्थः । तदेवमभिहितमुत्पत्तिद्वारम् ।। २८३८ ॥ २८३९ ॥ इदानीं निक्षेपद्वारमुच्यते-तत्र नमस्कारस्य निक्षेपश्चतुओं-नामनमस्कारः, स्थापनानमस्कारः, द्रव्यनमस्कारः, भावनमस्कारश्चेति । तत्र नाम-स्थापने क्षुण्णे । ज्ञ-भव्यशरीरव्यतिरिक्तद्रव्यनमस्काराभिधित्सया पुनराह निहणाइ दव्य भावोवउत्त जं कुज सम्मदिट्ठी उ । नेवाइयं पयं दव्व-भावसंकोयण पयत्थो ॥ २८४० ॥ नमस्कार-तद्वतोरभेदोपचाराद् निवादिद्रव्यनमस्कारः, आदिशब्दाद् यो द्रव्याथ विद्या-मन्त्रदेवतादीनां नमस्कारः क्रियते | सोऽपि द्रव्यनमस्कारः। निवादिनमस्कारस्य च द्रव्यत्वमप्राधान्यात् , अप्राधान्यं च तेषां मिथ्यात्वादिकलुषितत्वादिति । भावनमस्कारस्त्वागमतः स विज्ञेयो यमुपयुक्तः सम्यग्दृष्टिरहदादीनां कुर्यादिति द्वारम् ॥ १ अथ कारणोपकारीति कारणं तेन कारणं सर्वम् । प्रायेण बाह्यवस्तु को नियमः शब्दमाने ? ॥ २८३८ ॥ अथ प्रत्यासनतरं कारणमैकान्तिकं ततो लब्धिम् । प्रतिपद्यस्व, न चेदेवं, न वाचनामावनियमस्ते ॥ २८३९ ॥ २ निवादि द्रव्यं भाव उपयुक्तो यं कुर्यात् सम्यग्दृष्टिस्तु । नैपातिकं पदं द्रव्य-भावसकोचनं पदार्थः ॥ २८४७ ॥ ११२५॥
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy