________________
विशेषा.
॥११२६
अथ पदद्वारमुच्यते । पद्यते गम्यतेऽर्थोऽनेनेति पदम् । तच्च पञ्चधा- नामिकम् , नैपातिकम् , औपसर्गिकम् , आख्यातिकम् , मिश्रं चेति । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम् , 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इतिवृहद्वत्तिः । मिश्रम् । एवं नामिकादिपश्चप्रकारपदसंभवे सत्याह- 'नेवाइयं पयं ति' निपतत्य हंदादिपदानामादिपर्यन्तयोरिति निपातः, निपातादागतम् , तेन वा निवृत्तम् , स एव वा स्वार्थिकप्रत्ययविधानाद् नैपातिक 'नमः' इति पदम् । इति पदद्वारम् ॥
अथ पदार्थद्वारमुच्यते- 'दव्व-भावसंकोयण पयत्थो त्ति' इह 'नमोऽहद्भया' इत्यादिषु यद् 'नमः' इति पदं तस्य 'नमः' | इति पदस्यार्थः पदार्थः, स च पूजालक्षणः । सा च का ? इत्याह- 'दव्यभावसंकोयण त्ति' द्रव्यसंकोचनम् , भावसंकोचनं च । तत्र द्रव्यसंकोचनं कर-शिरः-पादादिसंकोचः, भावसंकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः। अत्र च भङ्गचतुष्टयम् , तद्यथा-द्रव्यसंकोचो न भावसंकोचः, यथा पालकादीनाम्, भावसंकोचो न द्रव्यसंकोच इत्यनुत्तरसुरादर्दानाम् ; द्रव्यसंकोचो भावसंकोचश्च यथा शम्बस्यः न द्रव्यसंकोचो न भावसंकोच इति शून्यः । इह च भावसंकोचप्रधानो द्रव्यसंकोचोपि तच्छद्धिनिमित्तः ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ २८४० ॥
अथ नमस्कारस्य भाष्यकारो नामादिनिक्षेपं विस्तरतो व्याचिख्यासुराह
नामाइचउन्भेओ निक्खेवो मंगलं च सो नेओ । नाम नमोभिहाणं ठवणा नासोऽहवागारो ॥ २८४१॥
नाम-स्थापनादिचतुर्भेदो नमस्कारस्य निक्षेपः । स चाधस्तादुक्तमङ्गलस्येव विस्तरतो विज्ञेयः। संक्षेपतस्त्विहाप्युच्यते'नामं ति' नामनमस्कारो 'नमः' इत्यभिधानम् । स्थापनानमस्कारस्तु 'नमः' इत्यक्षरद्वयस्य विन्यासः । अथवा, नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठ-पुस्तक-चित्रादिगतस्य साध्वादेराकारः स्थापनानमस्कार इति ॥ २८४१॥
द्रव्यनमस्कारमाह
आगमओऽणुवउत्तो अज्झया दवओ नमोकारो । नोआगमओ जाणय-भव्वसरीराइरित्तोऽयं ॥२८४२ ॥ द्रव्यनमस्कारो द्वेधा- आगमता, नोआगमतश्च । तत्रानुपयुक्तो नमस्कारस्याध्येता आगमतो द्रव्यनमस्कारः । नोआगमतोऽयं १ नामादिचतुर्भेदो निक्षेपो मङ्गलं च स शेयः । नाम नमोभिधानं स्थापना म्यासोऽधवाकारः ॥ २८४१॥
२६॥ २ आगमतोऽनुपयुक्तोऽध्येता द्रव्यतो नमस्कारः । नोआगमतो ज्ञायक-भव्यशरीरातिरिक्तोऽयम् ॥ २८४२ ॥
STORE
Jan Education inte
For Personal and Price Use Only