________________
विशेषा ॥११२०॥
दर्शनपरार्थत्वादीनि शब्दस्य नित्यत्वसाधनानि यान्युक्तानि तानि न्यायमार्गानुसारिभिः स्वयमेवाभ्यूह्य यथासंभवमसिद्धतादिदोषदुष्टानि वाच्यानि; तथाहि- दर्शनपरार्थत्वादित्यसिद्धो हेतुः, स्वावबोधार्थमपि कचिच्छब्दप्रयोगदर्शनात् । तथाऽनैकान्तिकश्च, विपर्यये बाधकप्रमाणाभावात् । विरुद्धो वा, प्रयोगानन्तरमेव विशरारुत्वदर्शनात् कृतकत्वाद् वा शब्देऽनित्यत्वस्यैव दर्शनात् । इत्यादि| दूषणानि सर्वत्राभ्यूद्ध वक्तव्यानि । तथा, पक्षो-दाहरणदोषाश्च वाच्याः, वयं तु साक्षाद् न ब्रूमः, ग्रन्थविस्तरभयात् । तत्र प्रत्यक्षादिबाधितः पक्षः, साध्यसाधनविकलमुदाहरणमित्यादिदोषाः स्वयमेव द्रष्टव्या इति ॥ २८२४ ।।
तदेवं नैगमोक्तं दूषयित्वा स्वपक्षसिद्ध्यर्थं शेषनयाः माहुः
धणिरुप्पाई इंदियगज्झचाओ पयत्तजत्ताओ। पुग्गलसंभूईओ पच्चयभेए य भेयाओ ॥ २८२५ ॥
उप्पाइ नाणमिढं निमित्तसब्भावओ जहा कुंभो । तह सद्द-कायकिरिया तस्संजोगोय जोऽभिमओ॥२८२६॥ व्याख्या- उत्पद्यत इत्युत्पादी ध्वनिरिति प्रतिज्ञा, इन्द्रियग्राह्यत्वात् , घटवदिति । तथा, प्रयत्नाजायत इति प्रयत्नजस्तद्भावः प्रयत्नजत्वं तस्मात् प्रयत्नजत्वात् । तथा, पुद्गलेभ्यः संभूतेः । तथा, ताल्वादिप्रत्ययभेदभेदित्वादुत्पादी शब्दो घटवत्' इति सर्वत्र द्रष्टव्यम् । यश्चोत्पादी स विनाशित्वादनित्य इति सिद्धमेवेति । तथा, उत्पादि ज्ञानं नमस्कारज्ञानमिष्टमिति प्रतिज्ञा । निमित्तसद्भावादिति हेतुः, जिनादिविषयाज्जायमानत्वादित्यर्थः । यथा कुम्भ इति दृष्टान्तः। न केवलं ज्ञानं तथा, शब्द-शिरोनमनादिका कायक्रिया, तेषां च ज्ञानादीनां यो द्विकादिसंयोगो नित्यत्वेनाभिमतः परस्य, एतत् सर्वमुत्पादि, निजनिजनिमित्ताज्जायमानत्वात् , यथा कुम्भः । ततो ज्ञानाद्यात्मको नमस्कार उत्पन्न इति सिद्धम् । तदेवं 'संसाणं उप्पण्णो' इति व्याख्यातम् ।।२८२६।।
'जइ कत्तो तिविहसामित्ता' इत्येतद् व्याचिख्यासुराह
उप्पत्तिमओऽवस्सं निमित्तमस्स उ नयत्तियं तिविह। इच्छइ निमित्तमेत्ती जमण्णहा नत्थि संभूई॥२८२७॥ यदि नामोत्पन्नो नमस्कारस्ततः किम् ? । अत्रोच्यते- उत्पत्तिमतश्च वस्तुनोऽश्यं निमित्तम् 'अस्ति' इति क्रियाध्याहार:
१ ध्वनिरुत्पादीन्द्रियग्राह्यत्वात् प्रयत्नजत्वात् । पुद्गलसंभूतितः प्रत्ययभेदे च भेदात् ॥ २८२५ ॥
उत्पादि ज्ञानमिष्टं निमित्तसद्भावतो यथा कुम्भः । तथा शब्द-कायक्रिये तत्संयोगश्च योऽभिमतः ॥ २८२६ ॥ २ गाथा २८०६ । ३ उत्पत्तिमतोऽवश्य निमित्तमस्य तु नयत्रिकं त्रिविधम् । इच्छति निमित्तमेतस्माद् यदन्यथा नास्ति संभूतिः ॥ २८२८॥
॥११२०॥
For Personal and
Use Only