SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । नन्ववगाहनादय उत्पादादिधर्मका एव, गुणत्वात् , पत्रनीलतादिगुणवत् ; एवं 'जीवगुणा अपि नमस्कारादय उत्पादादिधर्मका एव, गुणत्वात् , पत्रधर्मवत्' इत्यपि त्वदुक्तविपरीतं ब्रुवतां को दोषः ?- न कश्चिदिति ॥ २८२१ ॥ किश्च, अवगाढारं च विणा कुओऽवगाहो त्ति तेण संजोगो । उप्पाई सोऽवस्सं गच्चुवगारादओ चेवं ॥२८२२॥ अवगाढारं चावगाहकं जीव-परमाण्वादिकं विना विचार्यमाणः कुतोऽन्योऽवगाह इति वक्तव्यम् । तेनावगायन नमसा सहावगाहकस्य जीवादेः, तेन वावगाहकेन जीवादिना सहावगाह्यस्य नभसः संयोगोऽवगाह इति चेत् । ननु यद्येवम् , जितमस्माभिः, यतोऽवश्यमुत्पाद्यसौ, संयोगत्वात् , व्यङ्गुलादिसंयोगवदिति । एवं गतरुपकारो गत्युपकारः स आदिर्येषां स्थित्युपकारादीनां ते गत्युपकारादयो धर्मास्तिकायादिगुणास्तेऽप्येवमेवोत्पादवन्तो द्रष्टव्याः, गुणत्वात् , अवगाहगुणवदिति ॥ २८२२ ॥ अपिच, आकाश-परमाण्वादिदृष्टान्ततो भवता नित्यत्वं साध्यते, तच्चाकाशादीनां नित्यत्वमस्माकमसिद्धम् । कुतः? इत्याह ने य पजवओ भिन्नं दव्वमिहेगंतओ जओ तेण । तन्नासम्मि कहं वा नहादओ सव्वहा निच्चा ? ॥२८२३॥ न च पर्यायाद् घटादिसंयोग-वर्ण-गन्धादेः सकाशाद् यतो यस्माद् द्रव्यमेकान्ततो भिन्नम् , किन्त्वभिन्नमपि तत् तस्मादिप्यते, तेन तस्मात् कारणात् तमाशे पर्यायविनाशे कथं वा केन वा प्रकारेण नभः-परमाण्वादयः सर्वथा नित्याः?। कथञ्चिद् यदि नित्या भवन्ति, तर्हि भवन्तु । यत्तु सर्वथा नित्यत्वं तत् तेषां न घटते, पर्यायविनाशे तद्रूपतया तेषामपि विनाशादिति भावः । तत एकान्तनित्यत्वे साध्ये नैतेषां दृष्टान्तत्वं युक्तमिति ॥ २८२३ ॥ __ यदुक्तम्- 'दरिसणपरत्थयाओं' इत्यादि, तत्र दूषणातिदेशमाह"निच्चत्तसाहणाणि य सहस्सासिद्धयाइदुट्ठाई । संभवओ बच्चाई पक्खो-दाहरणदोसा य ॥ २८२४ ॥ १ अवगाढारं च विना कुतोऽवगाह इति तेन संयोगः । उत्पादी सोऽवश्यं गत्युपकारादयश्चैवम् ॥ २८२२ ॥ २ नच पर्यवतो भिन्न व्यमिहकान्ततो यतस्तेन । तमाशे कथं वा नभआदयः सर्वथा नित्याः ॥ २८२३ ॥ ३ गाथा २८१८ । ४ नित्यत्वसाधनानि च शब्दस्यासिद्धतादिदुष्टानि । संभवतो वाच्यानि पक्षी-दाहरणदोषाश्च ॥ २८२४ ।। For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy