________________
एवमनवस्थाप्रसङ्गतोऽशक्यं संकेतकरणम् । अथ पर्यन्ते कश्चिदकृतसंकेतोऽपि ध्वनिरिष्यते, तर्हि प्राक्तना अपि सर्वे ध्वनयोऽकृतसंविशेषा० केताः, शब्दत्वात् , पर्यन्तध्वनिवत् । इत्यसांकेतिकत्वात् सिद्धं घटादिवाचकशब्दानामनादिकालसिद्धत्वमिति ।। ॥१११८॥
चतुर्थ हेतुमाह- 'संबंधनिच्चयाउ त्ति' नित्यः शब्दः, उक्तन्यायेन तस्य घटादिभिः सह वाच्यवाचकभावसंबन्धस्य नित्यत्वात् । ER तस्यानित्यत्वे वाच्य-वाचकभावसंबन्धनित्यत्वानुपपत्तेरिति । इत्थं च ज्ञानादीनां नित्यत्वे सिद्ध सिद्धोऽनुत्पन्नस्तदात्मको नमस्कार इत्याद्यनगमाभिप्राय इति ॥ २८१८ ॥
अथ शेषनया एतैरव जीवानन्यस्वादिहेतुभिर्ज्ञानादीनामनित्यत्वं साधयन्ति
'जेणं चिय जीवाओऽणन्नं तणेय नाणमुप्पाइं । उप्पज्जइ जं जीवो बहुहा देवाइभावेण ॥ २८१९ ॥
येनैव कारणेन जीवादनन्यदभिन्नं ज्ञानं तेनैव तदुत्पद्यते, यद् यस्माद् बहुधा जीवो देवादिभावनोत्पयते, तदुत्पादे च ज्ञानस्याप्युत्पादादिति ॥ ॥ २८१९ ॥
यदुक्तम्- 'निश्चुग्घाडो य सुए' इति तत्राह
अविसिटठक्खरभागो सुत्तेऽभिहिओ न सम्मनाणं ति। कोऽवसरो तस्स इहं सम्मंनाणाहिगारम्मि ?॥२८२०॥
अक्षरस्य योऽनन्ततमो भागो नित्योद्घाटः श्रुतेऽभिहितः, सोऽविशिष्ट एव सम्यग्-मिथ्याविशेषरहित एवोक्तः, न तु सम्यग्ज्ञानरूपः । ततः सम्यग्ज्ञानविचारेऽत्र प्रस्तुते कस्तस्याधिकारः । इदमुक्तं भवति - यद्यविशिष्टज्ञानरूपोऽक्षरानन्तभागो नित्योद्धाटत्वेन नित्यः, तर्हि नमस्काररूपस्य सम्यग्ज्ञानस्य नित्यत्वे किमायातम् , अतो यत् किञ्चिदेतदिति ॥ २८२०॥
यदुक्तम्- 'अहवा अरूवगुणओ नाणं निच्चं' इत्यादि, तत्राह
अवगाहणादओ नणु गुणत्तओ चेव पत्तधम्म व्व। उप्पायाइसहावा तह जीवगुणा वि को दोसो ?॥२८२१॥
, नैत्र जीवादनन्यत् तेनैव ज्ञानमुत्पादि । उत्पद्यते यज्जीवो बहुधा देवादिभावेन ॥ २८१९॥ २ गाथा २८१६ । ३ अविशिष्टाक्षरभागः सूत्रेऽभिहितो न सम्यग्ज्ञानमिति । कोऽवसरस्तस्येत सम्यग्ज्ञानाधिकारे ? ॥ २८२० ॥ ४ गाथा २०१७ । ५ अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव । उत्पादादिस्वभावास्तथा जीवगुणा अपि को दोषः ॥ २८२१ ॥
॥१११८॥
For Personal
Use Only