________________
विशेषा
॥१११७||
महासका
दरिसणपरत्थयाओ अइंदियत्थत्तओऽणवत्थाओ। संबंधनिच्चयाओ सदावत्थाणमणुमेअं॥ २८१८ ॥
इह शब्दस्यावस्थानं सदावस्थितत्वं नित्यत्वमनुमेयं साध्यम् । 'दरिसणपरत्थयाउ त्ति' दर्शनं प्रकटनं शब्दस्योच्चारणंबह व्यापारणं प्रयोग इति यावत् , तस्य दर्शनस्य शब्दप्रयोगस्य परार्थत्वं परप्रत्यायकत्वं तस्माद् दर्शनपरार्थत्वादिति हेतुः । इदमुक्तं भवति- न खलु बक्तृभिः शब्दोत्पादनमात्रार्थमेव शब्दप्रयोगः क्रियते, किन्तु परार्थत्वात् परमत्यायननिमित्तत्वादिति; यच्च परार्थ व्यापार्यते तत् तद्वयापारकालात् मागप्यस्ति, यथा वृक्षादिच्छेदनक्रियानिमित्तं व्यापार्यमाणः कुठारश्छेदनक्रियाव्यापारकालात् प्रागप्यस्ति । ततः शब्दः सदावस्थितत्वाद् नित्यः सिद्धः।
___ अत्रैव द्वितीयं हेतुमाह- 'अइंदियत्थत्तउ त्ति' अतीन्द्रिया मेरु-स्वर्गादयोऽर्था अभिधेयत्वेन यस्यासावतीन्द्रियार्थस्तद्भावोऽतीन्द्रियार्थत्वम्, तस्मादतीन्द्रियार्थत्वाद् नित्यः शब्दः, केवलज्ञानवत् । इदमुक्तं भवति- य इन्द्रियग्राह्या घटादयोऽर्थास्तेषु संकेतवशात् कृतक एव किल वाच्यवाचकत्वसंबन्धः, अतस्तस्मात् शब्दस्य नित्यत्वं न सिध्यति; ये त्वतीन्द्रिया मेरु-स्वर्गादयोऽर्थास्तेपामतीन्द्रियत्वेनैव किल संकेतः कर्तुं न शक्यते, अतोऽनादिकार्यसंसिद्धोऽकृतक एवं शब्दस्य तेषु वाच्यवाचकत्वसंबन्धः । अतोऽतीन्द्रियार्थैः सहानादिकालसंसिद्धादकृतकत्वेन नित्याद् वाच्यवाचकभावसंबन्धात् सिद्धं किल शब्दस्य नित्यत्वम् । न हि स्वयमनित्यस्यानादिकालसंसिद्धैर्नित्यैर्मेवादिभिरथैः सह वाच्यवाचकभावसंबन्धः सिध्यतीति भावः । तर्हि घटादिवाचकशब्दानां कथं नित्यत्वं सिध्यति' इति चेत् । उच्यते-मे,दिवाचकशब्दानां नित्यत्वे सिद्धे तेषामपि तत् साध्यते तद्यथा-नित्या घटादिवाचकशब्दाः, शब्दत्वात् , मेर्वादिशब्दवदिति ।
अत्रैव तृतीयहेतुमाह- 'अणवत्थाउ त्ति' अयं च विपर्यये बाधक एव हेतुः । मूलहेतुस्त्वित्थं द्रष्टव्यः- नित्याः सर्वेऽपि घटादिवाचकशब्दाः, अनादिकालात् तद्वाचकत्वेन तेषां सिद्धत्वात् , इह यदनादिकालसिद्धं तद् नित्यं दृष्टम् , यथा चन्द्रा-ऽर्कविमानादयः, अनादिकालसिद्धाश्च घटादिवाचकशब्दाः, तस्माद् नित्या इति । ननु सांकेतिका एव घटादिवाचकशब्दास्ततोऽसिद्धममीषामनादिकालसिद्धत्वमिति चेत् । तदयुक्तम् , संकेतस्य कर्तुमशक्यत्वात् । कुतः ? इत्याह- अनवस्थातः, अनवस्थाप्रसङ्गोऽत्र बाधक प्रमाणमित्यर्थः, तथाहि- येन शब्देन संकेतः क्रियते, तत्रापि संकेतकारक शब्दान्तरमपेक्षणीयम् , तत्राप्यन्यत् , पुनस्तत्राप्यपरम् ,
। दर्शनपराधतातोऽतीन्द्रियार्थत्वतोऽनवस्थातः । संबन्धनित्यतातः शब्दावस्थानमनुमेयम् ॥ २८१८ ॥
Jan E
inema
For Personal and
Use Only