SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहदत्तिः । किञ्च, हि नमोक्कारो णाणं सहो व कायकिरिया वा। अहवा तस्संजोगो न सम्बहा सो अणप्पत्ती ॥२८१५ नमस्कारो हि ज्ञान वा भवेत् , 'नमो अरिहंताणं' इत्यादिशब्दो वा, शिरोनमन-करकुड्मलमीलन-विवक्षितावयवसकोचनादिलक्षणा कायाक्रिया वा, द्विकादिको वा ज्ञानादिसंयोगो भवेदिति चत्वारः पक्षाः । किश्चातः? इत्याह- 'न सव्वहा सो अणुपत्ति त्ति' सर्वथा सर्वैरपि प्रकारै यमनुत्पत्तिर्नानुत्पन्नो घटत इत्यर्थः, ज्ञानादीनां चतुर्णामप्युत्पादादिधर्मकत्वादिति ॥२८१५॥ अथ नैगमः पाह- ननु ज्ञानादीनामुत्पादादिधर्मकत्वमसिद्धम् , नित्यत्वात् , आकाशवत् । तत्र ज्ञानस्य तावद् नित्यत्वं साधयन्नाह नेणु जीवाओऽणन्नं नाणं, णिच्चो य सो तओ तं पि। निच्चुग्घाडो य सुए जमक्खराणंतभागो त्ति ॥२८१६॥ ___अहवा अरूवगुणओ नाणं निच्चं नहावगाहो व्व । लयण-प्पयासपरिणामओ य सव्वं जहा अणवो ॥२८१७॥ व्याख्या-- ननु जीवादनन्यदभिन्नं ज्ञानम् , नित्यश्चासौ जीवः , ततस्तदव्यतिरेकात् तदपि 'नित्यम्' इति शेषः । ततो नोत्पादादिधर्मकं ज्ञानम् , नित्यत्वात् , नभोवदिति भावः । एवमुत्तरत्रापि भावार्थो वक्तव्यः। किञ्च, “सबजीवाणं पि य गं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति वचनाद् न क्षरति न विनश्यतीत्यक्षरं केवलज्ञानं, तस्यानन्तभागो नित्योद्घाटो नित्यावस्थितोऽनावृत एव सर्वदा तिष्ठतीति यद् यस्मात् श्रुतेऽभिहितम् , तस्माच्च नित्यं ज्ञानम् , नित्यानावृतत्वात् , नभोवदिति । अथवा, नित्यं ज्ञानम् , अरूपद्रव्यगुणत्वात् , यथा नभोव्यस्यावगाहगुणः । अथवा, सर्वमपि ज्ञान-शब्दादिकं नित्यम् , लयनप्रकाशपरिणामत्वात् , तिरोभावा-ऽऽविर्भावधर्मकत्वादित्यर्थः, यथा परमाणव इति ॥ २८१६ ।। २८१७ ॥ ____ अथ विशेषतोऽपि शब्दस्य नित्यत्वं साधयन्नाह . भवेद् नमस्कारो ज्ञान शब्दो वा कायक्रिया वा । अथवा तत्संयोगो न सर्वथा सोऽनुत्पत्तिः ॥ २८१५ ॥२ नमोऽईद्भ्यः । ३ ननु जीवादनन्यज्ज्ञानं नित्यश्च स ततस्तदपि । नित्योद्घाटश्च श्रुते यदक्षरानन्तभाग इति ॥ २०१६ ।। __अथवाऽरूपगुणतो ज्ञान नित्य नभोवगाह इव । लयन प्रकाशपरिणामता सबै यथाऽणवः ।। २८१७॥ ४ सर्वजीवानामपि चाक्षरस्थानन्तभागो निस्योद्घाटितः । १९१६॥ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy