SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१११५॥ सदुच्यते, तर्हि किं नाम वस्तु धनाधिकं कस्य नासत् ? -अपि तु सर्व सर्वस्यासत् प्रामोति । अस्य चोपलक्षणत्वात् 'इत्थं सर्व सर्वस्य सत् प्राप्नोति' इत्यपि द्रष्टव्यम् । ततश्चैवमीश्वरधनेन दरिद्राणामधनानामपि धनववादधनव्यपदेशः कस्यापि न स्यात् । न चेत्थं परधनस्याफलता भवेत् , अन्यधनस्यान्यत्रापि सत्त्वात् , तथाच तत्फलस्यापि सद्भावादिति ॥ २८१२ ॥ ततः किं भवेत् ? इत्याह सव्वधणं सामन्नं पावइ भत्तीफलं व सेसं च । किरियाफलमेवं चाऽकयागमो कयविणासो य ॥२८१३ ॥ एवं सति यदेकस्येश्वरस्य संबन्धि तत् सर्वेषां दरिद्राणामपि धनं सामान्यं साधारण प्राप्नोति, यद्वा, यदेकस्य नमस्कारवतोऽहंदादिभक्तिफलं तद् मिथ्यादृशामपि नमस्कारशून्यानां सामान्यं प्राप्नोति । तथा शेषं च यद् दान-ध्यान-हिंसा-मृषावादादिक्रियाफलं तत् सर्वेषां सामान्यं प्रामोति । एवं च सत्यकृतस्यापि पुण्य-पाप-सुख-दुःखादेरागमः, कृतस्यापि च पुण्य-पापादेविनाशः स्यादिति ॥ २८१३ ॥ पुनरपि नैगममतमाशङ्कय परिजिहीर्षवः शेषनयाः प्राहुःअह भत्तिमंतसंताणओ स निच्चो त्ति कहमणुप्पन्नो? । नणु संताणित्तणओ स होइ बीयंकुराइ व्व ॥२८१४॥ अथानुत्पन्ननमस्कारवादिन ! एवं ब्रूषे- भक्तिमतां सम्यग्दृष्टीनां यः सन्तानः प्रवाहस्तस्मात् तमाश्रित्य नित्यो नमस्कारः। सम्यग्दृष्टीनां हि संतानो न कदाचिद् व्यवच्छिद्यते । अव्यवच्छिन्नत्वाच्च नित्योऽसौ, यच्च नित्यं तदाकाशवद् नोत्पद्यते । ततः किलानुत्पन्नो नमस्कार इति परस्याकूतम् । अत्रोत्तरमाह- 'कहमणुप्पन्नो त्ति' नन्वेवमपि कथमनुत्पन्नो नमस्कारः, न कथश्चिदित्यर्थः । कुतः ? इत्याह- 'नणु इत्यादि' ननु यद्यपि सम्यग्दृष्टीनां संतानो नित्यः, तथापि सम्यग्दृष्टयः सन्तानिनोऽनित्या एक, मनुष्यादिभावेन तेषामुत्पाद-विनाशादिति । सम्यग्दृष्ट्यव्यतिरेकाच्च नमस्कारोऽपि संतानी, संतानित्वाच्च ‘स होइ त्ति' स नमस्कारो भवत्युत्पद्यते, बीजाङ्कुरादिसंतानिवदिति । इह यः संतानी स उत्पद्यते, यथा बीजाकुरादिः, सम्यग्दृष्टिसंतान्यव्यतिरेकात्, संतानी च नमस्कारः, इत्युत्पद्यत एव । ततः कथमनुत्पन्नोऽसौ ? इति ।। २८१४ ॥ ARMER सर्वधनं सामान्य प्राप्नोति भक्तिफलं वा शेषं च । क्रियाफलमेवं चाकृतागमः कृतविनाशश्च ॥ २८१३ ॥ २ अथ भक्तिमत्संतानतः स नित्य इति कथमनुत्पन्नः । ननु संतानित्वतः स भवति बीजा-कुरादिरिव ॥२८१४॥ Jain Educationa.Internal For Personal and Price Use Only H ww.jaineibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy