________________
9appbpbs
केवलममूर्तस्वात् सर्वदा सदपि तत् केवलिनं विहाय न कोऽपि लक्षयति । एवं नमस्कारोऽपि । इत्यतः सर्वदैव सच्चादसावादिनैगमाविशेषा० भिप्रायेणानुत्पन्न उच्यत इति ।। २८०८ ।। २८०९ ॥
॥१११४ ॥
Jain Education inte
"सेसाणं उप्पण्णी' इत्येतद् व्याचिख्यासुराह—
समयं नत्थितओsप्पाय -विणासओ खपुष्कं व । जमिहत्थि तदुप्पाय व्वय धुवधम्मं जहा कुंभो ॥२८१० ॥ शेषाणां विशेषवादिनयानामेतद्मतम् तकोऽसौ पराभिमतो नमस्कारो नास्तीति प्रतिज्ञा । अनुत्पाद- विनाशात्- उत्पाद-वि नाशाभावादिति हेतुः । खपुष्पवदिति दृष्टान्तः । इह यदस्ति तत् सर्वमुत्पाद-व्यय-ध्रुवर्धमकम्, यथा कुम्भः यस्य पुनरुत्पादादयो न सन्ति तत् सदपि न भवति, यथा खरविषाणम्, उत्पाद - विनाशाशून्यश्च परैर्नमस्कारोऽभ्युपगम्यते । ततो नास्त्यावपि ॥ २८१०|| • यदुक्तम्- आवरणात् सतोऽप्यस्याग्रहणम्, तत्राह -
आवरणाद्रगहणं नाभावाउ ति तत्थ को हेऊ ? | भत्ती य नमोक्कारो कहमत्थि य सा न य ग्गहणं ? ॥२८११।
नन्वावरणाज्ज्ञानावरणोदयात् सन्नपि नमस्कारः सर्वेण न गृह्यते, न पुनरभावादित्यत्र को हेतुः किं नियामकम् - न किञ्चिदित्यर्थः । अभावादेवायं सर्वेण सर्वदा न गृह्यते, न पुनरावरणोदयादिति शेषनयाभिप्रायः । किञ्च तीर्थकरादिषु भक्तिर्नमस्कारोऽभिधीयते सा च सर्वदास्ति, न च मिथ्यादृष्टयवस्थायां गृह्यत इति परस्परव्याहतमिदम् । तस्मादुत्पन्नोऽसौ गृह्यते, अनुत्पन्नस्तु न गृह्यते, इत्येतदेव सुन्दरम् किमावरणादिकल्पनया ? इत्यभिप्रायः ।। २८११ ।।
अथाद्यनैगमनयमतमाशङ्कय परिहरन्नाह
अह परसंतो त्ति तओ संतो, किं नाम कस्स नासंतं ? । अहणाइव्ववएसो नेवं न य परधणाफलया ॥ २८१२ ॥
अथैवं ब्रूपे - 'पर संतो ति तओ संतो त्ति' परसंताने सर्वदैवास्ति नमस्कारः, नानाजीवेषु तस्य सर्वकालमव्यवच्छेदात् । योऽयमत्र नोपलभ्यते तत्राप्यसौ 'संतो त्ति' सन्नुच्यते । अत्रोत्तरमाह- 'किं नाम कस्स नासंतं ति' यदि धन्यसंतानवर्त्यपि वस्त्वन्यस्य
१ गाथा २८०६ । २ शेषमतं नास्ति सकोऽनुत्पाद- विनाशतः खपुष्पमिव । यदिहास्ति तदुत्पाद-व्यय-ध्रुवधर्म यथा कुम्भः ॥ २८१० ॥
३ आवरणादग्रहणं नाभावादिति तत्र को हेतुः ? भक्तिश्च नमस्कारः कथमस्ति च सा न च ग्रहणम् १ ॥ २८११ ॥ अथ परसन्निति सकः सन् किं नाम कस्य नासत् ? अथनादिव्यपदेशो नैवं न च परधनाफलता ॥ २८१२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
।। १११४ ॥
www.jainelibrary.org