SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१११३॥ POSTALAB त्वात् , बीजवदङ्करस्य, इत्येवं देहलक्षणात् समुत्थानाद् नमस्कार उत्पद्यते । तथा, वचनं वाचना गुरुभ्यः श्रवणमधिगम इत्यर्थः, तस्याश्च वाचनायाः सकाशाद् नमस्कारो जायते । तथा, लब्धिस्तदावरणक्षयोपशमलक्षणा तस्याश्चायमुपजायते । इत्येतत् त्रिविध कारणं प्रथमे नैगम-संग्रह-व्यवहारलक्षणे त्रिके नैगमादिनयत्रयमतेनावगन्तव्यमित्यर्थः । तथा, ऋजुसूत्रस्य प्रथमवर्ज वाचना-लब्धियं नमस्कारस्य कारणम्, तच्छून्यस्य जन्तोदेहमात्रसद्भावेऽपि नमस्काराख्यकार्योत्पत्तिव्यभिचारात् । शेषनयास्तु शब्दादयो लब्धिमेकां नमस्कारकारणत्वेनेच्छन्ति, वाचनाया अपि लब्धिशून्येष्वभव्यादिषु नमस्काराजनकत्वात् , लब्धियुक्तेषु तु प्रत्येकबुद्धादिषु तदभावेऽपि तत्सद्भावतो व्यभिचारित्वात् ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २८०६॥ २८०७ ॥ __'उप्पण्णाणुप्पन्नो' इत्यत्र भाष्यम् सत्तामेत्तग्गाही जेणाइमनेगमो तओ तस्स । उप्पज्जइ नाभूयं भूयं न य नासए वत्थु ॥ २८०८ ॥ तो तस्स नमोक्कारो वत्थुत्तणओ तहं च सो निच्चो। संतं पि न तं सव्वो मुणइ सरूवं ववरणाओ ॥२८०९॥ व्याख्या- येन यस्मात् कारणादायनैगमः सत्तामात्रग्राही, ततस्तस्याद्यनैगमस्य मतेन सर्व वस्तु नाभूतं नाविद्यमानम् , किन्तु सर्वदैव सर्व सदेव । ततः किम् ? इत्याह- 'उप्पज्जइ न' इत्येवमिहापि न संबध्यते, आवृत्तिव्याख्यानात् । इदमुक्तं भवतियत् सर्वदैव सत् तद् नोत्पद्यते, यथा नभः, तस्याप्युत्पादाभ्युपगम उत्पन्नस्याप्युत्पादप्रसङ्गेनानवस्थाप्राप्तेः । तथा, यद् भूतं विद्यमान सर्वदैव सद् वस्तु तद् न नश्यति, सर्वथा सर्वदैव सतो विनाशायोगादिति । यत एवम् , ततस्तस्याद्यनैगमस्य स नमस्कारो नित्य एव, | वस्तुत्वाद, नभोवत्, नोत्पद्यते, नापि विनश्यतीत्यर्थः, अत एवैतन्मतेनानुत्पन्नोऽसावभिधीयते । आह-ननु यदि नमस्कारः सर्वदैव सन् तदा मिथ्यादृष्टयवस्थायां किपित्यसौ न लक्ष्यते ? इत्याह- 'संत पीत्यादि' सर्वावस्थासु सन्तमपि नमस्कारमतिशयज्ञानिनं वि| हाय न सर्वोऽपि मुणति जानातीति प्रतिज्ञा । 'वरणाउ त्ति' आवरणकर्मसद्भावादिति हेतुः । आत्मनः स्वरूपवदिति दृष्टान्तः। इदमुक्तं | भवति- मिथ्यादृष्टयवस्थायामपि द्रव्यरूपतया नमस्कारोऽस्ति, सर्वथाऽसतः खरविषाणस्येव पश्चादप्युत्पादायोगात् , केवलं ज्ञानावरणेनावृतत्वाच्छद्मस्थजन्तवस्तद्रूपतया सन्तमपि तं नमस्कारं न लक्षयन्ति, यथाऽऽत्मनः स्वरूपम् । न ह्यात्मनः स्वरूपं नास्ति, RISTIAS १ गाथा २८०६ । २ सत्तामात्रमाही येनादिमनैगमस्ततस्तस्य । उत्पद्यते नाभूतं भूतं न च नश्यति वस्तु ॥ २८०८॥ ततस्तस्य नमस्कारो वस्तुस्वतस्तथा च स नित्यः । सन्तमपि न तं सर्वः जानाति स्वरूपमिवावरणात् ॥ २८०९॥ ॥१११३॥ बनवल For Personal and Jan Educationa inter www.jaineibrary.org Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy