SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ PAREPURE विशेषाः GUSICROPPED ॥१११२॥ उत्पदनमुत्पत्तिः प्रसूतिः, साऽस्य नमस्कारस्य नयानुसारेण चिन्त्या । तथा, निक्षेपणं निक्षेपो न्यासः, स चास्य कार्यः । पद्यते गम्यतेऽर्थोऽनेनेति पदं नामिकादि, तच्चेह चिन्तनीयम् । पदस्यार्थः पदार्थः, स चास्य वक्तव्यः । प्रकृष्टा रूपणा प्ररूपणा, साबृहद्वत्तिः । चास्य द्विविधादिभेदतो विधेया । वसन्त्यस्मिन् गुणा इति वस्तु, तच्च नमस्कारार्ह वाच्यम् । आक्षेपणमाक्षेपः पूर्वपक्षो वाच्यः । प्रसिद्धिस्तत्परिहाररूपा वक्तव्या । क्रमोऽहंदादिरभिधेयः। प्रयोजनमर्हदादिक्रमस्य कारणं वाच्यम् । अथवा, येन प्रयुक्तः प्रवर्तते तद् नमस्कारस्य प्रयोजनमपवर्गाख्यं वाच्यम् । तथा, फलं च नमस्करणादिक्रियानन्तरभावि स्वर्गादिकं निरूपणीयम् । अन्ये तु व्यत्ययेनं प्रयोजन-फलयारेथ प्रतिपादयन्ति । 'नमुक्कारो त्ति' नमस्कारः खल्वेभिरश्चिन्तनीयः॥ इति नियुक्तिगाथासंक्षेपार्थः ॥२८०५॥ अथ नियुक्तिकार एवोत्पत्तिद्वारं विस्तरेणाहउप्पन्नानुप्पण्णो इत्थ नया णेगमस्सणुप्पण्णो । सेसाणं उप्पण्णो जइ कत्तो तिविहसामित्ता ॥ २८०६ ॥ समुट्ठाण-वायणा-लडिओ य पढमे नयत्तिए तिविहं । उज्जुसुय-पढमवजं सेसनया लद्धिमिच्छति॥२८०७॥ व्याख्या- उत्पन्नश्चासावनुत्पन्नश्चेत्युत्पन्नानुत्पन्नो नमस्कारो मन्तव्यः । आह- कथमेक एवोत्पन्नोऽनुत्पन्नश्च भवति, विरोधात् ? इत्याह- 'इत्थेत्यादि' अत्र नयाः प्रवर्तन्ते । ते च नैगमादयः सप्त । नैगमो द्विविधः- सर्वसंग्राही, देशसंग्राही च । तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् , तस्य चोत्पाद-व्ययरहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः। 'सेसाणं उत्पण्णो त्ति'। शेषा विशेषग्राहिण|स्तेषां शेषाणां विशेषग्राहित्वात् , तस्य चोत्पाद-व्ययवत्त्वात् , उत्पाद-व्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात् , नमस्कारस्य तु वस्तुत्वादुत्पन्न इति । 'जइ कत्तो त्ति' यद्युत्पन्नः, कुतः ?, इत्याह- 'तिविहसामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासस्तस्मात् त्रिविध स्वामित्वात् त्रिविध स्वामिभावात् त्रिविधकारणाादित्यर्थः। तदेव त्रिविध स्वामित्वं दर्शयति- 'समुट्ठाणेत्यादि' समुत्थानतः, वाचनतः, लब्धितश्च 'नमस्कार उत्पद्यते' इति वाक्यशेषः । तत्र सम्यक् संगतं वोत्तिष्ठतेऽस्मादिति समुत्थानं निमित्तमित्यर्थः । किं पुनस्तदिदइति । उच्यते- अन्यस्याश्रतस्वात, तदाधारतया प्रत्यासन्नत्वाद् देहोत्र परिगृह्यते देहो हि नमस्कारकारणम् , तद्भावभावि२ उत्पन्नानुत्पनोऽत्र नया नैगमस्यानुत्पन्नः । शेषाणामुत्पनो यदि कुतस्विविधस्वामित्वात् ॥ २८०६ ॥ ॥१११२॥ समुत्थान-वाचना-लब्धितश्च प्रथमे नयत्रिके त्रिविधम् । ऋजुसूत्र-प्रथमवर्जे शेषनया लब्धिमिच्छन्ति ।। २८०५ Jain Educationa.Inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy