Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 124
________________ हदत्तिः विशेषा० ।।११२२॥ - विज्ञायते- लब्धितो नान्यद् वीर्यं किमपि नमस्कारकारणमस्ति, व्यभिचारित्वात् । व्यभिचारित्वं च नमस्कारस्य तदन्वय-व्यतिरेकाननुविधायित्वात् । लब्धिस्तु तस्याव्यभिचारि कारणम् , तदन्वय-व्यतिरेकानुविधायित्वादिति ॥ २८२९ ।। तदेवं समुत्थानं व्याख्याय वाचना-लब्धिस्वरूपं व्याचिख्यासुराह-- पैरओ सवणमहिगमो परोवएसो त्ति वायणाऽभिमया । लद्धी य तयावरणक्खओवसमओ सयं लाभो ॥२८३०॥ परतो गुरुभ्यो यत् श्रवणं, तथाऽधिगमः, परोपदेशश्च, सा वासनाऽभिधीयते । लब्धिस्तु का ? इत्याह- परतो वाचनामन्तरेण नमस्कारस्य यः स्वयं लाभः । कुतः पुनर्या लब्धिः ? इत्याह- तदावरणक्षयोपशमात्- नमस्कारावरणकर्मक्षयोपशमादित्यर्थः । आह- ननु तदावरणक्षयोपशम एव लब्धिरन्यत्र प्रसिद्धा, तत् कथमिह तत्कार्यभूतो नमस्कारलाभो लब्धित्वेनोच्यते, नमस्कारकारणस्यैवेह चिन्तयितुं प्रस्तुतत्वाद् यथोक्ताया एव च लब्धेनमस्कारकारणत्वात् ? | सत्यम् , किन्तु तत्कार्यभूतोऽपि नमस्कारलाभोऽत्र लब्धिरुक्ता, कार्य कारणोपचारादिति । एतदविशुद्धनैगम-संग्रह-व्यवहारनयमतेन त्रिविध नमस्कारकारणं मन्तव्यमिति ॥२८३०॥ ऋजुमूत्रमतेन तु द्विविधमेव कारणमिति दर्शयन्नाह-- उज्जुसुयणयमयमिणं पुव्वुप्पन्नस्स किं समुत्थाणं । अह संपइमुप्पजइ न वायणा लडिभिन्नं तं ॥२८३१॥ ऋजुमूत्रनयस्येदं मतम्- यदि पूर्वभवोत्पन्नो नमस्कारः, तदेहभवदेहलक्षणं समुत्थानं तस्य किं करोति ?- न किञ्चिदित्यभिप्रायः, उत्पन्नस्य कारणापेक्षाऽयोगात् । अथ सांप्रतमिहमवे समुत्पद्यते नमस्कारः, तर्हि यस्तस्य कारणं तद् वाचना-लब्धिभ्यां भिन्नं व्यतिरिक्तं न किश्चित् पश्यामः । अत इदमेवं द्विविधं तस्य कारणमिति ॥ २८३१ ॥ इदमेव भावयन्नाह पैरओ सयं व लाभो जइ परओ वायणा, सय लद्धी । ज न परओ सयं वा तओ किमन्नं समुत्थाणं ॥२८३२॥ नमस्कारस्य हि लाभो जायमानः परतोऽपि भवेत् , स्वयं वा ? इति द्वयी गतिः। तत्र यदि परत इति पक्षः, तर्हि 'वायण १ परतः श्रवणमधिगमः परोपदेश इति वाचनाभिमता । लब्धिश्च तदावरणक्षयोपशमतः स्वयं लाभः ॥ २८३०॥ २ जुसूत्रनयमतमिदं पूर्वोत्पनस्य किं समुत्थानम् । अथ संप्रत्युत्पद्यते न वाचना-लब्धिभिन्नं तत् ॥ २८३१ ॥ ३ परतः स्वयं वा लाभो यदि परतो वाचना, खयं लब्धिः । यद् न परतः स्वयं वा ततः किमन्यत् समुत्थानम् ॥ २०३२।। ११२२॥ sa.08 Jan E inema For Personal and Price Use Only Howw.jaineibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202