Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११३०॥
अहव मयमसंगहिओ तो ववहारो वि किं न तहम्मा । अह सव्वो तो तस्समधम्माणो दो वि ते जुत्ता॥२८५३॥
व्याख्या- इह संग्रहिकोऽसंग्रहिकः सर्वो वा नैगमस्तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र संग्रहिकः संग्रहमतावलम्बी सामान्यवादीत्यर्थः, असंग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ततश्च यदि संग्रहिका संग्रहमतावलम्बी नैगमस्ता स्थापनामिच्छति, तर्हि संग्रहस्तत्समानमतोऽपि तां किमिति नेच्छति-? इच्छेदेवेत्यर्थः । 'अहव मयमित्यादि' 'अथवा' इत्यव्ययोऽथार्थे । अथ परस्य मतम्- यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसंग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम् , 'न संग्रहिकः' इत्यध्याहारः, न ततः संग्रहस्य स्थापनेच्छा निषिध्यत इति भावः । अत्रोत्तरमाह- 'तो इत्यादि तर्हि एकत्र संधिसतोऽन्यत्र प्रच्यवते, एवं हि सति व्यवहारोऽपि स्थापनां किमिति 'नेच्छति' इति शेषः । कुतः ? इत्याह- यतस्तधर्माऽसौ- असंग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते, विशेषवादित्वात् । ततश्चैषोऽपि स्थापनामिच्छदेवेति, निषिद्धा चास्यापि त्वया, 'ठेवणावज्जे संगह-ववहारा' इति वचनादिति । अथ सर्वोऽखण्डः परिपूर्णो नैगमः स्थापनामिच्छति, न तु संग्रहिकोऽसंग्रहिको वेति भेदवान् , अतस्तदृष्टान्तात् संग्रह-व्यवहारयोर्न स्थापनेच्छा साधयितुं युक्तेति भावः । अत्रोच्यते- 'तो इत्यादि ततस्तर्हि तत्समधर्माणी नैगमसमानधर्माणौ द्वावपि समुदितौ ताविति संग्रह-व्यवहारौ युक्तावेव । इदमत्र हृदयम्- तर्हि प्रत्येक तयोरेकतरनिरपेक्षयोः स्थापनाभ्युपगमो मा भूदिति समुदितयोस्तयोः संपूर्णनैगमरूपत्वात् तदभ्युपगमः केन वार्यते, अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकताग्रहणात् ? इति ॥ २८५२ ॥२८५३॥
इतश्च स्थापनाभ्युपगमः संग्रह-व्यवहारयोर्युक्तः। कुतः ? इत्याहजं च पवेसो नेगमनयस्स दोसु बहुसो समक्खाओ। तो तम्मयं पि भिण्णं मयमियरेसिं विभिन्नाणं ॥२८५४॥
यच्च यस्मात् प्रवेशोऽन्तर्भावः 'जो सामन्नग्गाही सो नेगमो संगहं गओं' इत्यादिना ग्रन्थेन प्रागत्रान्यत्र च नैगमनयस्य द्वयोः संग्रह-व्यवहारयोर्बहुशोऽनेकधा समाख्यातः प्रतिपादितः । ततस्तन्मतमपि स्थापनाभ्युपगमलक्षणं नैगमनयमतमपीतरयोः संग्रह-व्यवरयोविभिनयां दवतोभिन्नं पृथग मतं संमतमिति । इदमुक्तं भवति- यथा विभिन्नयोः संग्रह-व्यवहारयो गमोऽन्तर्भूतस्तथा स्था१ अथवा मतमसंग्रहिकस्ततो व्यवहारोऽपि किं न तद्धर्मा । अथ सर्वस्ततस्तत्समधर्माणों द्वावपि ते युक्तौ ॥ २८५३ ॥ २ गाथा २८४७
E११३०॥ ३ यच्च प्रवेशो नैगमनयरय हुयोबहुशः समाख्यातः । ततस्तन्मतमपि भिन्नं मतमितरेषां विभिन्नानाम् ॥२८५४॥ ४ यः सामान्यमाही स नैगमः संग्रहं गतः।
Palas
Jain Educationa.Inte
For Personal and Price Use Only
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202