________________
विशेषा०
॥११३०॥
अहव मयमसंगहिओ तो ववहारो वि किं न तहम्मा । अह सव्वो तो तस्समधम्माणो दो वि ते जुत्ता॥२८५३॥
व्याख्या- इह संग्रहिकोऽसंग्रहिकः सर्वो वा नैगमस्तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र संग्रहिकः संग्रहमतावलम्बी सामान्यवादीत्यर्थः, असंग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ततश्च यदि संग्रहिका संग्रहमतावलम्बी नैगमस्ता स्थापनामिच्छति, तर्हि संग्रहस्तत्समानमतोऽपि तां किमिति नेच्छति-? इच्छेदेवेत्यर्थः । 'अहव मयमित्यादि' 'अथवा' इत्यव्ययोऽथार्थे । अथ परस्य मतम्- यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसंग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम् , 'न संग्रहिकः' इत्यध्याहारः, न ततः संग्रहस्य स्थापनेच्छा निषिध्यत इति भावः । अत्रोत्तरमाह- 'तो इत्यादि तर्हि एकत्र संधिसतोऽन्यत्र प्रच्यवते, एवं हि सति व्यवहारोऽपि स्थापनां किमिति 'नेच्छति' इति शेषः । कुतः ? इत्याह- यतस्तधर्माऽसौ- असंग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते, विशेषवादित्वात् । ततश्चैषोऽपि स्थापनामिच्छदेवेति, निषिद्धा चास्यापि त्वया, 'ठेवणावज्जे संगह-ववहारा' इति वचनादिति । अथ सर्वोऽखण्डः परिपूर्णो नैगमः स्थापनामिच्छति, न तु संग्रहिकोऽसंग्रहिको वेति भेदवान् , अतस्तदृष्टान्तात् संग्रह-व्यवहारयोर्न स्थापनेच्छा साधयितुं युक्तेति भावः । अत्रोच्यते- 'तो इत्यादि ततस्तर्हि तत्समधर्माणी नैगमसमानधर्माणौ द्वावपि समुदितौ ताविति संग्रह-व्यवहारौ युक्तावेव । इदमत्र हृदयम्- तर्हि प्रत्येक तयोरेकतरनिरपेक्षयोः स्थापनाभ्युपगमो मा भूदिति समुदितयोस्तयोः संपूर्णनैगमरूपत्वात् तदभ्युपगमः केन वार्यते, अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकताग्रहणात् ? इति ॥ २८५२ ॥२८५३॥
इतश्च स्थापनाभ्युपगमः संग्रह-व्यवहारयोर्युक्तः। कुतः ? इत्याहजं च पवेसो नेगमनयस्स दोसु बहुसो समक्खाओ। तो तम्मयं पि भिण्णं मयमियरेसिं विभिन्नाणं ॥२८५४॥
यच्च यस्मात् प्रवेशोऽन्तर्भावः 'जो सामन्नग्गाही सो नेगमो संगहं गओं' इत्यादिना ग्रन्थेन प्रागत्रान्यत्र च नैगमनयस्य द्वयोः संग्रह-व्यवहारयोर्बहुशोऽनेकधा समाख्यातः प्रतिपादितः । ततस्तन्मतमपि स्थापनाभ्युपगमलक्षणं नैगमनयमतमपीतरयोः संग्रह-व्यवरयोविभिनयां दवतोभिन्नं पृथग मतं संमतमिति । इदमुक्तं भवति- यथा विभिन्नयोः संग्रह-व्यवहारयो गमोऽन्तर्भूतस्तथा स्था१ अथवा मतमसंग्रहिकस्ततो व्यवहारोऽपि किं न तद्धर्मा । अथ सर्वस्ततस्तत्समधर्माणों द्वावपि ते युक्तौ ॥ २८५३ ॥ २ गाथा २८४७
E११३०॥ ३ यच्च प्रवेशो नैगमनयरय हुयोबहुशः समाख्यातः । ततस्तन्मतमपि भिन्नं मतमितरेषां विभिन्नानाम् ॥२८५४॥ ४ यः सामान्यमाही स नैगमः संग्रहं गतः।
Palas
Jain Educationa.Inte
For Personal and Price Use Only