________________
विशेषा
॥११२९॥
काररहितं वा । कुत इच्छन् ? इत्याह- भावहेतुर्यतस्तत्- भविष्यत्कुण्डलादिपर्याय लक्षणभावहेतुत्वादित्यर्थः, कथं नाम नेच्छेत् स्थापनाम् ? । कथंभूताम् ? । साकारां विशिष्टेन्द्राद्याकारसहितामपीत्यर्थः । पुनरपि किंविशिष्टाम् ? इत्याह- भावहेतुभूतां साकारत्वेन | विशिष्टेन्द्राद्यभिप्रायकारणभूतामित्यर्थः । इदमुक्तं भवति- यो ह्यनाकारमपि भावहेतुत्वाद् द्रव्यामिच्छति ऋजुसूत्रः, स साकारामपि विशिष्टेन्द्रादिभावहेतुत्वात् स्थापना किमिति नेच्छेत् ?- इच्छेदेव, नात्र संशय इति ।। २८४९ ।।
उपपत्त्यन्तरेणापि द्रव्य-स्थापनेच्छामस्य साधयन्नाह-- नाम पि होज सन्ना तव्वच्चं वा तदत्थपरिसुन्नं । हेउ त्ति तदिच्छंतो दव्व-ट्ठवणा कहं नेच्छे ? ॥२८५०॥
अह नामं भावम्मि वि तो णेच्छइ तेण दव-ठवणा विभावस्सासन्नयरा हेऊ सद्दो उ बज्झयरो॥२८५१॥ व्याख्या-ननु ऋजुमूत्रस्तावद् नाम निर्विवादमिच्छति । तच्च नामेन्द्रादिसंज्ञामात्र वा भवेत् , तद्वाच्यं वा तदर्थपरिशून्यम्-इन्द्रशब्दवाच्यं वा, इन्द्रार्थरहितं वा गोपालदारकादि वस्तु भवेदिति द्वयी गतिः । इदं चोभयरूपमपि नाम हेतुर्भावकारणमिति कृत्वेच्छन्नसौ ऋजुसूत्रो द्रव्य स्थापने कथं नाम ने छेत् ?, भावकारणत्वाविशेषादिति भावः। अथेन्द्रादिकं नाम भावेऽपि भावेन्द्रेऽपि संनिहितमस्ति,तेन तस्मादिच्छति तहजुसूत्रः । तेन तर्हि जितमस्माभिः, अस्य न्यायस्य द्रव्य-स्थापनापक्षे सुलभतरत्वात् ; तथाहि- द्रव्य-स्थापने अपि भावस्येन्द्रपर्यायस्यासन्नतरी हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति । एतदुक्तं भवति- इन्द्रमूर्तिलक्षणं द्रव्यं, विशिष्टतदाकाररूपा तु स्थापना, एते द्वे अपन्द्रिपर्यायस्य तादात्म्यसंबन्धेनावस्थितत्वात् संनिहिततरे, शब्दस्तु नामलक्षणो वाच्यवाचकभावसंबन्धमात्रणेच स्थितत्वाद् बाह्यतर इति । अतो भावे संनिहितत्वाद् नामेच्छन्नृजुसूत्रो द्रव्य-स्थापने संनिहिततरत्वात् सुतरामिच्छेदिति । तदेवमृजुमूत्रस्य चतुर्विधनिक्षेपेच्छासाधनेनानन्तरोक्तत्वात् परिहृतं तद्विषयं दुर्व्याख्यानम् ॥ २८५० ॥ २८५१ ॥
अथ प्राग् यदुक्तम्- 'ठेवणावज्जे संगह-ववहारा' इत्यादि, तत् परिहरन्नाहसंगहिउ असंगहिओसव्वो वा नेगमो ठवणमिच्छे। इच्छइ जइ संगहिओ तं नेच्छे संगहो कीस ? ॥२८५२॥
E११२९॥
नामापि भवेत् संज्ञा तद्वाच्यं वा तदर्थपरिशून्यम् । हेतुरिति तदिच्छन् दम्य स्थापने कथं नेच्छेत् । ॥ २८५०॥
अथ नाम भावेऽपि ततो नेपछति तेन दम्य स्थापने अपि । भावस्यासनतरी हेतू पारदस्तु बायतरः ॥ २८५१ ॥ २ गाथा २८४५। ३ संग्रहिकोऽसंप्रहिकः सों वा गमः स्थापनामिच्छेत् । इच्छति यदि संग्रहिकस्तां नेच्छेत् संग्रहः कस्मात् । ॥ २८५२ ॥ १४२
For Personal and
Use Only