SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वात्तिः । ॥११२८॥ नमस्कारकर्ता यदा शेषकाभ्यामपि वाक्-कायकरणाभ्यामुपयुक्तो नमस्कार करोति- बचनेन 'नमोऽहद्भयः' इति ब्रुवाणः, कायन तु संकोचितकर-चरणो यदा नमस्कारं करोतीत्यर्थः, तदाऽसौ नोआगमतो भावनमस्कार उच्यते, उपयोगलक्षणस्यागमस्य वाक्-का- यकरणक्रियामिश्रत्वात् , नोशब्दस्य चेह मिश्रवचनत्वादिति ।। २८४६ ॥ अथामुं नामादिनिक्षेपमपि नयैर्विचारयन्नाह-- भावं चिय सदनया सेसा इच्छंति सव्वनिक्खेवे । ठवणावज्जे संगह-ववहारा केइ इच्छति ॥ २८४७ ॥ भावमेव भावनमस्कारमेवेच्छन्ति त्रयोऽपि शब्दनयाः, शुद्धत्वात् । शेषास्तु ऋजुमूत्रान्ताश्चत्वारो नयाः सर्वाश्चतुरोऽपि निक्षेपानिच्छन्ति, अविशुद्धत्वात् । केचित्तु व्याचक्षते-संग्रह-व्यवहारौ स्थापनावजास्त्रानिक्षेपानिच्छतः, सद्भावा-ऽसद्भावस्थापनायाः किल सांकेतिकनामाभिधेयत्वेन नामनिक्षेप एवान्तर्भावादिति ।। २८४७॥ तथा, देव्व-ढवणावजे उज्जुसुओ, तं न जुज्जए जम्हा । इच्छइ सुयम्मि भणियं सो दब्बं किंतु न पुहत्तं ॥२८४८॥ द्रव्य-स्थापनावों शेषौ द्वावेव नाम-भावनिक्षेपाविच्छति ऋजुमूत्रः । तदेतद् व्याख्यानं न युज्यते, यस्मादसौ ऋजुसूत्रो द्रव्यमिच्छत्येव, केवलं पृथक्त्वं नेच्छति- बहूनि द्रव्यावश्यकादीनि नेच्छतीत्यर्थः । एतश्च सूत्रेऽनुयोगद्वारलक्षणे भणितं प्रतिपादितम् , तद्यथा- “उज्जुसुयस्स एगे अणुवउत्ते आगमओ एगे दवावस्सए पुहत्तं नेच्छइ" इति ।। २८४८ ॥ स्थापनेच्छामप्यस्याह इच्छंतो य स दव्वं तदणागारं तु भावहेउ त्ति । नेच्छेज कहं ठवणं सागारं भावहेउ त्ति ? ॥ २८४९ ॥ इच्छंश्च ऋजुमूत्रस्तत्प्रसिद्धं सुवर्णादिकं द्रव्यं पिण्डावस्थायामनाकारं तथाविधकटक-केयूरायाकाररहितं । विशिष्टेन्द्राद्या भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान् । स्थापनावीन संग्रह-व्यवहारी केचिदिच्छन्ति ॥ २८४७ ॥ २ द्रव्य-स्थापनावांवृजुसूत्रस्तद्न युज्यते यस्मात् । इच्छति श्रुते भणितं स द्रव्यं किन्तु न पृथक्त्वम् ॥ २८४८ ॥ ३ जुसूत्रस्यैकोऽनुपयुक्त आगमत एक द्रव्यावश्यक पृथक्त्वं नेच्छति । इच्छश्च स व्यं तदनाकारं तु भावहेतुरिति । नेच्छेत् कथं स्थापना साकार भावहेतुरिति ? ।। २८५९।। ११२८॥ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy