________________
विशेषा.
वृहद्वत्तिः।
॥११३३||
किं होज्ज नमोक्कारो जीवोऽजीवोऽहवा गुणो दव्वं । जीवो नो खंधो त्ति य तह नोगामो नमोक्करो ॥२८६३॥
कि वस्तु नमस्कारो भवेत् ?- जीवः, अजीवो वा । जीवाजीवत्वेऽपि किं गुणो द्रव्यं वा नमस्कारः? इति प्रश्ने नैगमाद्यपि शुद्धनयमतमङ्गीकृत्याह-जीवो नमस्कारः, नाजीवः । स च संग्रहन यापेक्षया मा भूदविशिष्टः पश्चास्तिकायमयः स्कन्धः, यथास्तन्मतावलम्बिन:- “पुरुष एवेदं नि सर्वं यद् भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्ननातिरोहति" इत्यादि । तथा संग्रहनयविशेषापेक्षयैव मा भूदविशिष्टग्राम इति, अतो 'नोस्कन्धो नोग्रामः' इति नियुक्तिगाथायां वाक्यशेषः, पश्चास्तिकायमयस्कन्धैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोस्कन्धो जीवो नमस्कारः, तथा, चतुर्दशविधभूतग्रामैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोग्रामरूपः प्रतिनियतः कोऽपि जीवो नमस्कार इति ।। २८६३ ॥
ननु कस्माज्जीवो नमस्कारो नाजीवः ? इत्याह-- जें जीवो नाणमओऽणन्नो नाणं च जं नमोकारो । तो सो जीवो दव्वं गुणो ति सामाइएऽभिहियं ॥२८६४॥
यद् यस्माज्ज्ञानमयो जीवः, ज्ञानं च यस्मात् श्रुतज्ञानरूपो नमस्कारः । अनन्यश्चाव्यतिरिक्तश्च ज्ञानाज्जीवः । ततः स नमस्कारो 'जीवो त्ति' जीव एव, नाजीवः, तस्य ज्ञानशून्यत्वादिति । भवतु जीवो नमस्कारः, केवलं द्रव्यमसौ गुगो वा ? इति वक्तव्यमित्याह- 'द्रव्यं गुणो वा नमस्कारः' इत्येतत् सामायिके 'किं सामायिकम्' इति द्वारे
जीवो गुणपडिवन्नो नयस्स दवट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ १ ॥ इत्यादिना ग्रन्थेनाभिहितमेव, केवलं सामायिकस्थाने नमस्कारो वाच्य इति ॥ २८६४ ॥ भवतु जीवो नमस्कारः, किन्तु नोस्कन्धो नोग्रामश्च कथमसौ ? इत्याहसव्वत्थिमओ खन्धो तदेक्कदेसो य जं नमुक्कारो । देसपडिसेहवयणो नोसद्दो तेण नोखंधो ॥२८६५॥
किं भवेद् नमस्कारो जीवोऽजीवोऽधवा गुणो द्रव्यम् । जीवो नोस्कन्ध इति च तथा नोग्रामो नमस्कारः ॥ २८५३॥
२ यज्जीवो ज्ञानमयोऽनन्यो ज्ञानं च यद् नमस्कारः । ततः स जीवो द्रव्यं गुण इति सामायिकेऽभिहितम् ॥ २८६४ ॥ ३ गाथा २६४३ । ४ सर्वास्तिमयः स्कन्धस्तदेकदेशश्च यद् नमस्कारः । देशप्रतिषेधवचनो नोशब्दस्तेन मोस्कन्धः ।। २८६५ ।।
॥११३३॥
For Personal
use only