SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥११३४॥ भूयग्गामो गामो तदेक्कदेसो तउत्ति नोगामो । देसो त्ति सो किमेक्कोऽणेगो नेओ नयमयाओ ॥२८६६॥ व्याख्या- सर्वे पश्चास्तिकायास्तन्मयस्तैर्नित्तः परिपूर्णः स्कन्ध उच्यते, तदेकदेशश्च यस्माद् नमस्कारवान् जीवः, नमस्कार-वृहदत्तिः । तद्वतोश्चाभेदोपचाराद् नमस्कारोऽपि तदेकदेशः । देशप्रतिषेधवचनश्च नोशब्दः, तेन तस्मात् स्कन्धैकदेशो जीवः, अभेदोपचाराद् नमस्कारच नोस्कन्ध इति । तथा, "ऐगेंदिय सुहुमियरा सन्नियरपणिंदिया सबि-ति-चऊ । पज्जत्ताऽपज्जत्ता भेएण चउदस ग्गामा ॥ १ ॥" इति वचनाच्चतुर्दशविधो भूतग्रामो ग्राम उच्यते । तदेकदेशश्च यस्मात् तकोऽसौ नमस्कारवान् देव-मनुष्यादिजीवोऽभेदोपचाराद् नमस्कारोऽपि तदेकदेश इत्यतोऽसौ नोग्रामोऽभिधीयते । 'देसो त्ति' पृच्छति विनेयः- भूतग्रामस्य देशः सन् स नमस्कारः किमेकोऽनेको वा ? इति वक्तव्यम् । गुरुराह- ज्ञेयो नयमतात्- एकत्वमनेकत्वं च तस्य नयमताद् विज्ञेयमित्यर्थः । तदेतावता 'किं जीवा' इति व्याख्यातम् ॥ २८६५॥ २८६६॥ अथ 'तप्परिणओ' इत्येतद् व्याचिख्यासुराह--- तेप्परिणउच्चिय जया सद्दाईणं तया नमोक्कारो । सेसाणमणुवउत्तो विलडिसहिओऽहवा जोग्गो ॥२८६७|| तत्परिणत एव नमस्कारपरिणामपरिणत एवं यदा जीवो भवति तदाऽसौ शब्दादिनयत्रयमतेन नमस्कारोऽभिधीयते । शेषाणां तु नैगमादिनयानामनुपयुक्तोऽपि नमस्कारो जीवो नमस्कार उच्यते । किं सर्वः ? नेत्याह- लब्धिसहितस्तदावरणकर्मक्षयोपशमयुक्तः, अथवा, योग्यो भव्यशरीरादिको राज्याईकुमारराजवदिति ॥ २८६७ ॥ अथ कथं पुनर्नयमतेन नमस्कारस्यैकत्वमनेकत्वं च ज्ञेयम् ? इत्याहसंगहनओ नमोक्कारजाइसामण्णओ सया एगं । इच्छइ ववहारो पुण एगमिहगं बहू बह्वो ॥२८६८॥ १ भूतग्रामो प्रामस्तदेकदेशः सक इति नौग्रामः । देश इति स किमेकोऽनेको ज्ञेयो नयमतात् ॥ २८६६ ॥ २ एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतरपञ्चेन्द्रियाः सद्वि-त्रि चतुरिन्द्रियाः । पर्याप्ता ऽपर्याप्ता भेदेन चतुर्दश प्रामाः ॥१॥ ३ तत्परिणत एवं यदा शब्दादनिां तदा नमस्कारः । शेषाणामनुपयुक्तोऽपि लब्धिसहितोऽथवा योग्यः ॥ २८५७ ॥ ४ संग्रहनयो नमस्कारजातिसामान्यतः सर्दकम् । इच्छति व्यवहारः पुनरेकमिहक बहून् पहुन् ॥ २८५८ ।। ॥११३४॥ STRESS For Personal and Oy
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy