Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदत्तिः ।
विशेषा ॥११३९॥
एवं सद्दो किरिया य सह-किरियावओ जओ धम्मो । न य धम्मो दव्वंतरसंचारी तो न पुज्जस्स ॥२८८३॥
व्याख्या- ऋजुसूत्रनयस्येदं मतम्- यद् यस्माज्ज्ञानमुपयोगरूपम् , शब्दो वा 'नमोऽर्हद्भ्यः' इत्यादिकः, क्रिया वा शिरो- नमनादिरूपा नमस्कारो भवेत् ? इति त्रयी गतिः। ततो नहि नैव सर्वथा सर्वैरपि प्रकारैस्तत्कर्तारं विनाऽन्यस्य युक्तः स नमस्कारः। तस्माद् नमस्कर्तृवामिक एवासौ युज्यते, न तु नमस्कार्यस्वामिक इतीह भावार्थः । कुतः ? इत्याह- 'नाणमित्यादि' यदि ज्ञानं नमस्कारस्तदा गुणत्वेन तद् नमस्कर्तृजीवादनन्यदव्यतिरिक्तं वर्तते, तत् कथमर्थान्तरस्य पूज्यस्य नमस्कार्यस्याहदादेः संबन्धी वक्तुं युज्यते।। यदि वा, अघटमानकमप्यभ्युपगम्य ब्रूमः- जीवस्य पूज्यस्यापि संबन्धी तद् भवतु, जीवरहितायास्त्वचेतनायाः प्रतिमायाः कथं वा केन प्रकारेण तद् भवेत् - तस्याः सर्वथा ज्ञानशून्यत्वेन कष्टतरं महासाहसमिदमित्यभिप्रायः । एवं शब्दः क्रिया च यस्माच्छब्दक्रियावतो नमस्कतुर्धर्मः, धर्मश्च न द्रव्यान्तरसंचारी, ततो न पूज्यस्य नमस्कार्यस्य नमस्कार इति ॥ २८८१ ॥ २८८२ ॥ २८८३ ॥
कुतः पुनर्धर्मो द्रव्यान्तरसंचारी न स्यात् ? इत्याहऐवं च कयविणासा-ऽकयागमे-गत्त-संगराईया । अन्नस्स नमोक्कारे दोसा बहवो पसज्जति ॥२८८४॥
एवं बनेन पूजकेन कृते नमस्कारेऽन्यस्य पूज्यस्याभ्युपगम्यमाने बहवो दोषाः प्रसजन्ति । के ? इत्याह- कृतनाशा-कृतागमै-कत्व-संकरादयः । तत्र येन कृतस्तस्यानभ्युपगमात् कृतनाशः, येन च न कृतः पूज्येन, तत्स्वामित्वाभ्युपगमेऽकृतागमः । तथा, द्वयोरप्यभिन्ननमस्कारधर्मकत्वादेकत्वम् , संकरो वा । आदिशब्दात् सहोत्पत्ति-विनाशादय इति ॥ २८८४ ॥
नैगमादिनयवादी पूर्वपक्षयन्नाहजैइ सामिभावओ होज्ज पूयणिजस्स सो तो को दोसो ? । अत्यंतरभूयस्स वि जह गावो देवदत्तस्स ॥२८८५॥
यदि पूजकादर्थान्तरभूतस्यापि पूजनीयस्य पूजके स्थितोऽपि स्वामिभावेन स नमस्कारो भवेत् , तर्हि को दोषः स्यात् ?धर्मस्य द्रव्यान्तरे संचरणाभ्युपगमाद् न कश्चिदित्यर्थः । यथाऽन्यत्र स्थितानामपि गवां देवदत्तः स्वामीति ॥ २८८५॥
एवं शब्दः क्रिया च शब्द-क्रियावतो यतो धर्मः । न च धर्मो नग्यान्तरसंचारी ततो न पूज्यस्य ॥२८॥ २ एवं च कृतविनाशा-कृतागम-कत्व-संकरादिकाः । अन्यस्य नमस्कारे दोषा बहवः प्रसज्ज्यन्ते ॥ २८८४ ॥ ३ यदि स्वामिभावतो भवेत् पूजनीयस्य स तवः को दोषः। भर्थान्तरभूतस्यापि यथा गावो देवदत्तस्य ॥ २८८५॥
११३९॥
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202