Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
BIReal
विशेषा
॥११२७॥
नामसवालमापनाRAAPASES
द्रव्यनमस्कारो ज्ञशरीर-भव्यशरीर-तद्यतिरिक्तभेदात् त्रिविध इति ॥ तत्र ज्ञशरीर-भव्यशरीरवक्तव्यता क्षुण्णा ॥ २८४२ ।।
तद्यतिरिक्तं तु द्रव्यनमस्कारमाह--
'मिच्छोवहया जं भावओ वि कुव्वन्ति निण्हवाईया । सो दवनमोक्कारो सम्माणुवउत्तकरणं च ॥२८४३।।
मिथ्यात्वोपहता निगवादयो भावतोऽपि यं नमस्कारं कुर्वन्ति स ज्ञशरीर-भव्यशरीरव्यतिरिक्तोऽप्रधानत्वाद् द्रव्यनमस्कारः । तथा, सम्यग्दृष्टिरप्यनुपयुक्तो यं नमस्कारं करोति स तव्यतिरिक्तो द्रव्यनमस्कार इति ॥ २८४३ ॥
आह- ननु भावतोऽपि कुर्वतां निह्नवादीनां किमिति द्रव्यनमस्कारः ? । अत्रोच्यते- अज्ञानित्वात् । अज्ञानित्वं च तेषां । मिथ्यादृष्टित्वात् , 'मिथ्यादृष्टेरज्ञानम्' इत्येतदपि कुतः ? इत्याह
सदसदविसेसणाओ भवहेऊ जदिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अन्नाणं ॥२८४४॥ प्रागसकृद् व्याख्यातार्था ॥ २८४४ ॥ प्रकारान्तरेणापि द्रव्यनमस्कारमाह
जो वा दबत्थमसंजयस्स व भयाइणाऽहवा सो वि । दवनमोकारो च्चिय कीरइ दमएण रणो व्व ॥२८४५॥
यो वा द्रव्याथ क्रियते स द्रव्यनमस्कारः । अथवा, द्रव्यलाभ विनापि योऽसंयतस्य राजार्दर्भयादिकारणतो द्रमकादिना क्रियते सोऽपि तद्व्यतिरिक्तो द्रव्यनमस्कार इति ।। २८४५॥
अथागमतो नोआगमतश्च द्विविधं भावनमस्कारमाह
आगमओ विन्नाया तच्चित्तो भावओ नमोक्कारो। नोआगमओ सो च्चिय सेसयकरणोवउत्तो त्ति ॥२८४६॥ तस्मिन् नमस्कारार्थे चित्तमुपयोगो यस्य नान्यत्र, असौ तच्चित्तो विज्ञाता आगमतो भावनमस्कारः, स एव मनस्करणेनोपयुक्तो
RRRR
॥११२७॥
१ मिथ्यात्वोपहता यं भावतोऽपि कुर्वन्ति निद्ववादिकाः । स द्रव्यनमस्कारः सम्यगनुपयुक्तकरणं च ।। २८४३ ॥ २ गाथा ११५ । ३ यो वा दण्यार्थमसंयतस्य वा भयादिनाऽथवा सोऽपि । द्रव्यनमस्कार एवं क्रियते प्रमकेण राज्ञ इव ।। २८४५।। ४ आगमतो विज्ञाता तरिचत्तो भावतो नमस्कारः । नोआगमतः स एव शेषककरणोपयुक्त इति ॥ २८४६ ॥
Jan Education Intem
For Personal and Price Use Only
POPaww.jainelibrary.org
Loading... Page Navigation 1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202