Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 120
________________ एवमनवस्थाप्रसङ्गतोऽशक्यं संकेतकरणम् । अथ पर्यन्ते कश्चिदकृतसंकेतोऽपि ध्वनिरिष्यते, तर्हि प्राक्तना अपि सर्वे ध्वनयोऽकृतसंविशेषा० केताः, शब्दत्वात् , पर्यन्तध्वनिवत् । इत्यसांकेतिकत्वात् सिद्धं घटादिवाचकशब्दानामनादिकालसिद्धत्वमिति ।। ॥१११८॥ चतुर्थ हेतुमाह- 'संबंधनिच्चयाउ त्ति' नित्यः शब्दः, उक्तन्यायेन तस्य घटादिभिः सह वाच्यवाचकभावसंबन्धस्य नित्यत्वात् । ER तस्यानित्यत्वे वाच्य-वाचकभावसंबन्धनित्यत्वानुपपत्तेरिति । इत्थं च ज्ञानादीनां नित्यत्वे सिद्ध सिद्धोऽनुत्पन्नस्तदात्मको नमस्कार इत्याद्यनगमाभिप्राय इति ॥ २८१८ ॥ अथ शेषनया एतैरव जीवानन्यस्वादिहेतुभिर्ज्ञानादीनामनित्यत्वं साधयन्ति 'जेणं चिय जीवाओऽणन्नं तणेय नाणमुप्पाइं । उप्पज्जइ जं जीवो बहुहा देवाइभावेण ॥ २८१९ ॥ येनैव कारणेन जीवादनन्यदभिन्नं ज्ञानं तेनैव तदुत्पद्यते, यद् यस्माद् बहुधा जीवो देवादिभावनोत्पयते, तदुत्पादे च ज्ञानस्याप्युत्पादादिति ॥ ॥ २८१९ ॥ यदुक्तम्- 'निश्चुग्घाडो य सुए' इति तत्राह अविसिटठक्खरभागो सुत्तेऽभिहिओ न सम्मनाणं ति। कोऽवसरो तस्स इहं सम्मंनाणाहिगारम्मि ?॥२८२०॥ अक्षरस्य योऽनन्ततमो भागो नित्योद्घाटः श्रुतेऽभिहितः, सोऽविशिष्ट एव सम्यग्-मिथ्याविशेषरहित एवोक्तः, न तु सम्यग्ज्ञानरूपः । ततः सम्यग्ज्ञानविचारेऽत्र प्रस्तुते कस्तस्याधिकारः । इदमुक्तं भवति - यद्यविशिष्टज्ञानरूपोऽक्षरानन्तभागो नित्योद्धाटत्वेन नित्यः, तर्हि नमस्काररूपस्य सम्यग्ज्ञानस्य नित्यत्वे किमायातम् , अतो यत् किञ्चिदेतदिति ॥ २८२०॥ यदुक्तम्- 'अहवा अरूवगुणओ नाणं निच्चं' इत्यादि, तत्राह अवगाहणादओ नणु गुणत्तओ चेव पत्तधम्म व्व। उप्पायाइसहावा तह जीवगुणा वि को दोसो ?॥२८२१॥ , नैत्र जीवादनन्यत् तेनैव ज्ञानमुत्पादि । उत्पद्यते यज्जीवो बहुधा देवादिभावेन ॥ २८१९॥ २ गाथा २८१६ । ३ अविशिष्टाक्षरभागः सूत्रेऽभिहितो न सम्यग्ज्ञानमिति । कोऽवसरस्तस्येत सम्यग्ज्ञानाधिकारे ? ॥ २८२० ॥ ४ गाथा २०१७ । ५ अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव । उत्पादादिस्वभावास्तथा जीवगुणा अपि को दोषः ॥ २८२१ ॥ ॥१११८॥ For Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202