Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥११११ ।।
Jain Educatoria Intern
१०००००००
ऽवसाने च मङ्गलमिष्यते, तत्रोपोद्घातनिर्युक्तेरादौ नन्दिमङ्गलम् मध्ये तु जिन- गणधरोत्पत्यादिगुणकीर्तनम्, अवसाने तु किलैष नम|स्कारो मङ्गलमित्यन्येषां बुद्धिः । सा च न युक्ता । कुतः ? इत्याह- 'तं च सत्यस्सेत्यादि' इयमत्र भावना - यत् शास्त्रस्यावसानमङ्गलं तैर्गीयते, तद्भणितमेव भद्रबाहुस्वामिना सर्वस्यापि षडध्ययनात्मकस्यावश्यकशास्त्रस्यान्ते प्रत्याख्यानलक्षणं मङ्गलम् । प्रत्याख्यानं हि तपः, तच्च “धम्मो मंगलमुक्कुट्ट" इत्यादिवचनाद् मङ्गलमेव । ततखेदं नमस्कारलक्षणं मङ्गलं सामायिक स्यादौ कथमभिधातुं युक्तम्, अप्रस्तुतत्वात् ? । अप्रस्तुतत्वं चेहादि-मध्यावसानत्वाभावादिति ।। २८०२ ॥
पुनरपि परमतमाशङ्कय परिहरन्नाह
होजाइ मंगलं सो तं यमाईए किं पुणो तेणं । अथवा कयं पि कीरइ कत्थावत्थाणमेत्रं ति ? ॥२८०३॥ अथ सामायिकस्यादौ निर्दिष्टत्वादादिमङ्गलमसौ नमस्कारो भवेदित्युच्यते, तदयुक्तम्, यतस्तदादि मङ्गलं कृतमेवादौ नन्यभिधानतः, किं पुनरप्यत्र तेन विहितेन ? । अथ कृतमप्यादिमङ्गलं पुनरपि क्रियते, तर्ह्येवं सति क्वावस्थानम् ? पुनः पुनस्तत्करणमसङ्गानवस्थाप्राप्तेर्न क्वचिदवस्थानं स्यादिति ।। २८०३ ॥
तर्हि भवन्त एव कथयन्तु - किमिह नमस्कारव्याख्याने कारणम् ? इत्युपसन्ने प्रेरके सूरिराह-
तुम्हा सो सुत्तं चिय तदाइभावादओ तयं चैव । पुत्र्त्रं वक्खाणेउं पच्छा वोच्छामि सामइयं ||२८०४||
तस्माद् नमस्कारस्तत्त्वतः सामायिकसूत्रमेव, तदादिभावात्- सामायिकादावुपन्याससद्भावात्, “करेमि भंते ! सामाइयं” |इत्यादिसामायिक सूत्रावयववदिति । अतः परमार्थेन सामायिकसूत्रत्वाद् न पुनर्मङ्गलार्थत्वात् तमेव नमस्कारं पूर्वमादौ व्याख्याय पश्चात् सामायिकार्थं वक्ष्यामि ।। इति गाथापञ्चकार्थः ॥ २८०४ ॥
नमस्कारव्याख्यानं चोत्पन्नाद्यनुयोगद्वारैर्विज्ञेयम्, तानि चामूनि
उप्पत्ती निक्खेवो पयं पयत्थो परूवणा वत्युं । अक्खेव पसिद्धि कमो पओयण फलं नमुक्कारो || २८०५ ॥
१ धर्मो मङ्गलमुत्कृष्टम् । २ भवेद् मङ्गलं स तत् कथमादौ किं पुनस्तेन । अथवा कृतमपि क्रियते क्वावस्थानमेवमिति ? ।। २८०३ ।।
३ तस्मात् स सूत्रमेव तदादिभावादतस्तदेव । पूर्वं व्याख्याय पश्चाद् वक्ष्यामि सामायिकम् ।। २८०४ ।। ४ उत्पत्तिनिक्षेपः पदं पदार्थः प्ररूपणा वस्तु आक्षेपः प्रसिद्धिः क्रमः प्रयोजनं फलं नमस्कारः ॥ २८०५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥११११ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202