Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 117
________________ विशेषा. ॥१११५॥ सदुच्यते, तर्हि किं नाम वस्तु धनाधिकं कस्य नासत् ? -अपि तु सर्व सर्वस्यासत् प्रामोति । अस्य चोपलक्षणत्वात् 'इत्थं सर्व सर्वस्य सत् प्राप्नोति' इत्यपि द्रष्टव्यम् । ततश्चैवमीश्वरधनेन दरिद्राणामधनानामपि धनववादधनव्यपदेशः कस्यापि न स्यात् । न चेत्थं परधनस्याफलता भवेत् , अन्यधनस्यान्यत्रापि सत्त्वात् , तथाच तत्फलस्यापि सद्भावादिति ॥ २८१२ ॥ ततः किं भवेत् ? इत्याह सव्वधणं सामन्नं पावइ भत्तीफलं व सेसं च । किरियाफलमेवं चाऽकयागमो कयविणासो य ॥२८१३ ॥ एवं सति यदेकस्येश्वरस्य संबन्धि तत् सर्वेषां दरिद्राणामपि धनं सामान्यं साधारण प्राप्नोति, यद्वा, यदेकस्य नमस्कारवतोऽहंदादिभक्तिफलं तद् मिथ्यादृशामपि नमस्कारशून्यानां सामान्यं प्राप्नोति । तथा शेषं च यद् दान-ध्यान-हिंसा-मृषावादादिक्रियाफलं तत् सर्वेषां सामान्यं प्रामोति । एवं च सत्यकृतस्यापि पुण्य-पाप-सुख-दुःखादेरागमः, कृतस्यापि च पुण्य-पापादेविनाशः स्यादिति ॥ २८१३ ॥ पुनरपि नैगममतमाशङ्कय परिजिहीर्षवः शेषनयाः प्राहुःअह भत्तिमंतसंताणओ स निच्चो त्ति कहमणुप्पन्नो? । नणु संताणित्तणओ स होइ बीयंकुराइ व्व ॥२८१४॥ अथानुत्पन्ननमस्कारवादिन ! एवं ब्रूषे- भक्तिमतां सम्यग्दृष्टीनां यः सन्तानः प्रवाहस्तस्मात् तमाश्रित्य नित्यो नमस्कारः। सम्यग्दृष्टीनां हि संतानो न कदाचिद् व्यवच्छिद्यते । अव्यवच्छिन्नत्वाच्च नित्योऽसौ, यच्च नित्यं तदाकाशवद् नोत्पद्यते । ततः किलानुत्पन्नो नमस्कार इति परस्याकूतम् । अत्रोत्तरमाह- 'कहमणुप्पन्नो त्ति' नन्वेवमपि कथमनुत्पन्नो नमस्कारः, न कथश्चिदित्यर्थः । कुतः ? इत्याह- 'नणु इत्यादि' ननु यद्यपि सम्यग्दृष्टीनां संतानो नित्यः, तथापि सम्यग्दृष्टयः सन्तानिनोऽनित्या एक, मनुष्यादिभावेन तेषामुत्पाद-विनाशादिति । सम्यग्दृष्ट्यव्यतिरेकाच्च नमस्कारोऽपि संतानी, संतानित्वाच्च ‘स होइ त्ति' स नमस्कारो भवत्युत्पद्यते, बीजाङ्कुरादिसंतानिवदिति । इह यः संतानी स उत्पद्यते, यथा बीजाकुरादिः, सम्यग्दृष्टिसंतान्यव्यतिरेकात्, संतानी च नमस्कारः, इत्युत्पद्यत एव । ततः कथमनुत्पन्नोऽसौ ? इति ।। २८१४ ॥ ARMER सर्वधनं सामान्य प्राप्नोति भक्तिफलं वा शेषं च । क्रियाफलमेवं चाकृतागमः कृतविनाशश्च ॥ २८१३ ॥ २ अथ भक्तिमत्संतानतः स नित्य इति कथमनुत्पन्नः । ननु संतानित्वतः स भवति बीजा-कुरादिरिव ॥२८१४॥ Jain Educationa.Internal For Personal and Price Use Only H ww.jaineibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202