Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१०९५||
प्रवर्तते । न च द्रव्यं धर्माऽस्तिकायादिकमनभिलाप्यम् , किन्त्वभिलाप्यमेव । ततः सर्वद्रव्येषु श्रुतं प्रवर्तते, अभिलाप्यविषयत्वात् । तस्य, न पुनः सर्वभावेषु सर्वपर्यायेषु, तेषामभिलाप्या-ऽनभिलाप्यत्वात् , श्रुतस्य चामिलाप्यमात्रविषयत्वात् , अभिलाप्यानां चानभि- बृहद्वत्तिः । लाप्येभ्योऽनन्तभागमात्रवृत्तित्वादिति । 'विइयेत्यादि' द्वितीय चरमव्रते-द्वितीयं मृषावादव्रतम् , चरमं तु परिग्रहव्रतमाश्रित्येह प्रक्रमे चारित्रं सर्वद्रव्येषु प्रवर्तते न तु सर्वपर्यायेष्वित्युक्तम् , मृषावादस्य वचनरूपत्वेन, परिग्रहस्य च मूर्छाविकल्पात्मकत्वेन द्रव्येष्वेव सर्वेषु प्रवृत्तेः, तेषामेवाभिलाप्यविषयत्वात् , पर्यायाणां त्वभिलाप्या-ऽनभिलाप्यत्वात् । अत एवाह- सर्वेषां पर्यायाणां चारित्रऽनुपयोगभावात् , अनुपयोगश्चानभिलाप्यानाश्रित्य मन्तव्यः। शेषाणि तु त्रीणि महाव्रतानि सर्वद्रव्यविषयाण्यपि न भवन्ति, किमुत सर्वपर्यायविषयाणि ? । अतो द्वितीय-चरमव्रते एवाश्रित्य सर्वद्रव्यासर्वपर्यायविषयता चारित्रस्य भावितेति ॥ २७५२-५४ ॥
'सर्वपर्यायाणां चारित्रेऽनुपयोगभावात्' इति यदुक्तं तदुपजीव्य परः प्रेर्यमाहनणु सव्वनहपएसाणंतगुणं पढमसंजमट्ठाणं । छविहपरिवड्ढीए छट्ठाणा संखया सेढी ॥ २७५५ ।। अण्णे के पजाया जेऽणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥ २७५६ ।।
अन्ने केवलिगम्म त्ति ते मई, ते वि के तदब्भहिया । एवं पि हुन्ज तुल्ला नाणतगुणत्तणं जुत्तं ॥२७५७।।
व्याख्या, आह- ननु संयमश्रेण्या सर्वजघन्यत्वेन यत् प्रथममायं संयमस्थानं तदपि पर्यायानाश्रित्य सर्वनमःप्रदेशानन्तगुणमागमे प्रोक्तम्- यावन्तः सर्वस्यापि लोकालोकनभसः प्रदेशास्तदनन्तगुणपर्यायराशियुक्तं प्रथममपि संयमस्थानं श्रुतेऽभिहितमित्यर्थः। ततोऽन्यद् विशुद्धितोऽनन्तभागवृद्धम् , तदपरं त्वसंख्यातभागद्धम् , अन्यत्तु संख्यातभागद्धम् , तदपरं तु संख्यातगुणवृद्धम् , अन्यत् त्वसंख्यातगुणवृद्धम्, तदपरं त्वनन्तगुणवृद्धमित्येवं पुनः पुनः क्रियमाणया पधिपरिवृद्ध्याऽसंख्येयलोकाकाशपदेशप्रमाणैः पदस्थानकनिष्पन्ना संयमश्रेणिर्भवतीति । ततश्च के नाम तेऽन्ये समधिकाः पर्यायाः, ये 'सर्वानुपयोगभावात्' इति वचनाच्चारित्रविषयानुपयुक्ताः प्रतिपाद्यन्त ?, ये च 'ने उ सव्वपज्जवसुं' इत्युक्ताभिप्रायात् ततश्चारित्रादनन्तगुणाः, येषां च
१ ननु सर्वनभःप्रदेशानन्तगुणं प्रथमसंयमस्थानम् । षड्वेधपरिवृक्षमा पम्थाना संख्याता श्रेणिः ॥ २७५५ ।। अम्बे के पर्याया येऽनुपयुक्ताश्चारित्राविषये । ये ततोऽनन्तगुणा येषां तदनन्तभागे ।। २७५६ ।।
१०९५ अन्ये केवलिगम्या इति ते मतिः, तेऽपि के तदन्यधिकाः । एवमपि भवेयुस्तुल्या नानन्तगुणत्वं युक्तम् ॥ २७५७ ।। २ गाथा २७५४ ।
वापस
JainEducational Intern
For Personal and
Use Only
OTww.jaineibrary.org
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202