________________
विशेषा
॥१०९५||
प्रवर्तते । न च द्रव्यं धर्माऽस्तिकायादिकमनभिलाप्यम् , किन्त्वभिलाप्यमेव । ततः सर्वद्रव्येषु श्रुतं प्रवर्तते, अभिलाप्यविषयत्वात् । तस्य, न पुनः सर्वभावेषु सर्वपर्यायेषु, तेषामभिलाप्या-ऽनभिलाप्यत्वात् , श्रुतस्य चामिलाप्यमात्रविषयत्वात् , अभिलाप्यानां चानभि- बृहद्वत्तिः । लाप्येभ्योऽनन्तभागमात्रवृत्तित्वादिति । 'विइयेत्यादि' द्वितीय चरमव्रते-द्वितीयं मृषावादव्रतम् , चरमं तु परिग्रहव्रतमाश्रित्येह प्रक्रमे चारित्रं सर्वद्रव्येषु प्रवर्तते न तु सर्वपर्यायेष्वित्युक्तम् , मृषावादस्य वचनरूपत्वेन, परिग्रहस्य च मूर्छाविकल्पात्मकत्वेन द्रव्येष्वेव सर्वेषु प्रवृत्तेः, तेषामेवाभिलाप्यविषयत्वात् , पर्यायाणां त्वभिलाप्या-ऽनभिलाप्यत्वात् । अत एवाह- सर्वेषां पर्यायाणां चारित्रऽनुपयोगभावात् , अनुपयोगश्चानभिलाप्यानाश्रित्य मन्तव्यः। शेषाणि तु त्रीणि महाव्रतानि सर्वद्रव्यविषयाण्यपि न भवन्ति, किमुत सर्वपर्यायविषयाणि ? । अतो द्वितीय-चरमव्रते एवाश्रित्य सर्वद्रव्यासर्वपर्यायविषयता चारित्रस्य भावितेति ॥ २७५२-५४ ॥
'सर्वपर्यायाणां चारित्रेऽनुपयोगभावात्' इति यदुक्तं तदुपजीव्य परः प्रेर्यमाहनणु सव्वनहपएसाणंतगुणं पढमसंजमट्ठाणं । छविहपरिवड्ढीए छट्ठाणा संखया सेढी ॥ २७५५ ।। अण्णे के पजाया जेऽणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥ २७५६ ।।
अन्ने केवलिगम्म त्ति ते मई, ते वि के तदब्भहिया । एवं पि हुन्ज तुल्ला नाणतगुणत्तणं जुत्तं ॥२७५७।।
व्याख्या, आह- ननु संयमश्रेण्या सर्वजघन्यत्वेन यत् प्रथममायं संयमस्थानं तदपि पर्यायानाश्रित्य सर्वनमःप्रदेशानन्तगुणमागमे प्रोक्तम्- यावन्तः सर्वस्यापि लोकालोकनभसः प्रदेशास्तदनन्तगुणपर्यायराशियुक्तं प्रथममपि संयमस्थानं श्रुतेऽभिहितमित्यर्थः। ततोऽन्यद् विशुद्धितोऽनन्तभागवृद्धम् , तदपरं त्वसंख्यातभागद्धम् , अन्यत्तु संख्यातभागद्धम् , तदपरं तु संख्यातगुणवृद्धम् , अन्यत् त्वसंख्यातगुणवृद्धम्, तदपरं त्वनन्तगुणवृद्धमित्येवं पुनः पुनः क्रियमाणया पधिपरिवृद्ध्याऽसंख्येयलोकाकाशपदेशप्रमाणैः पदस्थानकनिष्पन्ना संयमश्रेणिर्भवतीति । ततश्च के नाम तेऽन्ये समधिकाः पर्यायाः, ये 'सर्वानुपयोगभावात्' इति वचनाच्चारित्रविषयानुपयुक्ताः प्रतिपाद्यन्त ?, ये च 'ने उ सव्वपज्जवसुं' इत्युक्ताभिप्रायात् ततश्चारित्रादनन्तगुणाः, येषां च
१ ननु सर्वनभःप्रदेशानन्तगुणं प्रथमसंयमस्थानम् । षड्वेधपरिवृक्षमा पम्थाना संख्याता श्रेणिः ॥ २७५५ ।। अम्बे के पर्याया येऽनुपयुक्ताश्चारित्राविषये । ये ततोऽनन्तगुणा येषां तदनन्तभागे ।। २७५६ ।।
१०९५ अन्ये केवलिगम्या इति ते मतिः, तेऽपि के तदन्यधिकाः । एवमपि भवेयुस्तुल्या नानन्तगुणत्वं युक्तम् ॥ २७५७ ।। २ गाथा २७५४ ।
वापस
JainEducational Intern
For Personal and
Use Only
OTww.jaineibrary.org