________________
विशेषा
वृह
॥१०९६॥
30.OOOHOICICIROOOOile
पर्यायाणां तच्चारित्रमनन्तभागेऽभिधीयते । अभिलाप्यपर्यायविषयं हि किल चारित्रम् , ते चानभिलाप्यानामनन्तभाग एव वर्तन्ते, अतो 'न उ सव्वपज्जवसुं' इत्युक्तेऽनुपयुक्ताः पर्यायाश्चारित्रादनन्तगुणाः, चारित्रं तु तेषामनन्तभागे, इत्यनुक्तमपि सामर्थ्याद् गम्यत इति । एतच किल परो न मन्यते, सर्वजघन्यस्यापि संयमस्थानस्य सर्वनभःप्रदेशानन्तगुणपर्यायत्वात् , पर्यायाणां च त्रिभुवनेऽप्येतावन्मात्रत्वात् , चारित्रानुपयुक्तपर्यायाणामसंभवादिति । 'अन्ने इत्यादि' अत्राचार्य ! ते तवैवंभूता मतिर्भवेच्चारित्रोपयुक्तभ्योऽन्येऽपि केवलज्ञानगम्या अनभिलाप्या अनन्तगुणाः पर्यायाः सन्ति, ये चारित्रादनन्तगुणाः, चारित्रं तु येपामनन्तभाग इति । परः। पाह- 'ते वि के तदब्भहिय त्ति' तेऽपि केवलज्ञानगम्या ज्ञेयगता अनभिलाप्याः पर्यायाः के तदभ्यधिका:- तेभ्यश्चारित्रोपयुक्तभ्योऽभ्यधिका अतिरिक्ताः स्युः न केचनेत्यर्थ, संयमस्थानपर्यायैः सर्वस्यापि त्रिजगत्पर्यायराशेः क्रोडीकृतत्वात् तदनुपयुक्तत्वासंभवादिति । किञ्च, एवमपि चारित्रपर्यायाः केवलज्ञानगम्य यगतैः पर्यायैस्तुल्या एव भवेयुः, न पुनस्तेषां केवलज्ञानगम्यपर्यायाणामनन्तगुणत्वं युक्तम् । यावन्तो हि ज्ञेयस्य पर्यायास्तावन्तस्तदवभासकत्वेन ज्ञानस्याप्येष्टव्याः, अन्यथा तदवभासकवायोगात् । ततश्च ज्ञान-दर्शन-चारित्राध्यवसायात्मिकायाः संयमश्रेणेरन्तर्गतत्वात् केवलज्ञानस्य संयमश्रेण्यात्मकं चारित्रं पर्यायैः केवलज्ञानगम्यानां ज्ञेयगतपर्यायाणां तुल्यमेव युक्तं न हीनमिति ॥ २७५५ ।। २७५६ ॥ २७५७ ॥
एवं परस्यातिप्रेर्यनिपुणत्वमवलोक्य मूरिरतिनिपुणमेव प्रतिविधानमाह
'सेढीय नाण-दसणपजाया तेण तप्पमाणा सा । इह पुण चरित्तमत्तोवओगिणो तेण ते थोवा ॥२७५८ ।।
श्रेण्या ज्ञान-दर्शन-चारित्राध्यवसायात्मिकायां संयमश्रेणी ज्ञान-दर्शनपर्याया मध्ये संलुलिता विवक्षिताः, तेन तत्पमाणासौ सर्वनभःप्रदेशानन्तगुणपर्यायराशिममाणाऽसौ प्रोक्ता । इह तु ये चारित्रोपयोगिनस्त एव विवक्षिताः, ते च ग्रहण-धारणादिविषयभूता एव केचित् , तेन स्तोका इति न दोषः ॥ २७५८ ॥
अथान्यत् प्रेर्यमुत्थापयन्नाहनेणु सामाइयविसओ किंदारम्मि विपरूविओ पुब्बिं । कह न पुणरु तदोसो होज इहं को विसेसो वा ॥२७५९॥
॥१०९६॥ १ श्रेण्या ज्ञान-दर्शनपर्यायास्तेन तत्प्रमाणा सा । इह पुनश्चारित्रमानोपयोगिनस्तेन ते स्तोकाः ॥ २७५८ ।। २ ननु सामायिकविषयः किंद्वारेऽपि प्ररूपितः पूर्वम् । कथं न पुनरुक्तदोषो भवेदिह को विशेषो वा ॥ २७५९ ।।
साSEARRAHASRAकहा
inte
!
For Personal and
Use Only
www.jaintibrary.org