SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१०९७॥ वालहावाबाहार पर ननु पूर्व किंद्वार एव "तं खलु पञ्चक्खाणं आवाए' इत्यादिना सामायिकानां विषयः प्ररूपित एव, इह पुनरपि 'सव्वगयं सम्मत्तं' इत्यादिना तद्विषयनिरूपणं कुर्वतः कथं न पुनरुक्तदोषो भवेत् ?, को वा विशेषोऽत्र, यमाश्रित्य पुनरप्येवमुच्यते ? इति ॥२७५९ ॥ अत्रोत्तरमाह किं तं ति जाइभावेण तत्थ इह नेयभावओऽभिहियं । इह विसय-विसइभेओ तत्थाभेओवयारो ति॥२७६०॥ किं तत् सामायिकम् ? इति जातिभावेन विषय-विषयिणोरभेदं चेतास विधाय सामायिकजातिमात्रमेव तत्र पूर्व किंद्वारेऽपरेण जिज्ञासितम् , ततः 'आया खलु सामइयं' इत्यनेन तदेव मुख्यतया प्रोक्तम् , तद्विषयस्तु परेण जिज्ञासितोऽपि विषयिणि पृष्टे तदभिन्नत्वाद् गौणवृत्त्यैव प्रोक्तः। इह तु 'केषु' इति द्वारे विषय एव मुख्यतया परेण जिज्ञासितः, अतस्तस्यैव विषयस्य ज्ञेयभावेन ज्ञातव्यतयाऽभिहितं स्वरूपमित्युपस्कारः । पाठान्तरं वा 'अभिहिउ त्ति' तत्रायमर्थः- इह तु ज्ञेयभावेन ज्ञातव्यतया विषय एवाभिहितः । किमुक्तं भवति ? इत्याह- 'इहेत्यादि' इह 'केषु' इति द्वारे विषय-विषयिणोआंदो विवक्षित इत्यतो निष्कृष्य विषय एव ज्ञेयभावेनोक्तः, तत्र तु किंद्वारे विषय| विषयिणोरभेदोपचार इत्यतो विषयिभूतं सामायिकमेव ज्ञेयभावेन मुख्यतया निर्दिष्टम् ॥ इति गाथानवकार्थः ।। २७६० ॥ सांप्रतं 'कथं सामायिक लभ्यते ?' इतिद्वारे महाकष्टलभ्ये तल्लाभक्रमं दर्शयन्नाह- 'माणुस्स' इत्यादिकाः 'अब्भुट्ठाणे विणए' इति पर्यन्ता अष्टाविंशतिगाथाः। एताश्च पाठसिद्धा एव, कचिद् वैषम्यसंभवे मूलावश्यकटीकातो बोद्धव्या इति द्वारम् । 'कथम्' इति द्वारं गतम् ॥ २७६०॥ सांप्रतं तदित्यं लब्धं कियचिरं कालं भवति ?' इति कालद्वारे जघन्योत्कृष्ट सामायिककालमभिषित्सुराह सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुवकोडी देसूणा होइ उक्कोसा ॥२७६१॥ सम्यक्त्वस्य श्रुतस्य च लब्धिमङ्गीकृत्य 'दो वारे विजयाइसु' इत्यादिवक्ष्यमाणन्यायेन षट्पष्टिसागरोपमाणि पूर्वकोटीपृथक्त्वाधिकानि स्थितिर्भवति । शेषयोर्देशविरति-सर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति । 'उकोस त्ति' एषा सामायिकलब्धेरुत्कृष्टा स्थितिः ॥ इति नियुक्तिगाथार्थः ॥ २७६१॥ १ गाथा २६३४ । २ गाथा २७५१। ३ किं तदिति जातिभावेन तत्रेह ज्ञेयभावतोऽभिहितम् । इह विषय-विषयिभेदस्तत्राभेदोपचार इति ॥ २७६० ॥ ४ आ०नि०पृ०१५४-१५७ । ५ सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः । शेषयोः पूर्वकोटिर्देशोना भवत्युत्कृष्टा ॥ २०६१ ॥ ६ ज. विजयाइसु दो वारे'। १०९७॥ For Personal Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy