SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विशेषा. aadaideos ॥१०९८॥ भाध्यकारव्याख्या 'दो वारे विजयाइसु गयस्स तिण्णच्चुए य छावट्ठी । नरजम्मपुचकोडीपुहुत्तमुक्कोसओ अहिअं॥२७६२॥ इयं प्रागिहैव व्याख्याता ॥ २७६२ ॥ अथ चतुर्णामपि सामायिकानां जघन्यस्थितिं भाष्यकार एवाह अंतोमुहुत्तमित्तं जहन्नयं चरणमेगसमयं तु । उवओगंतमुहुत्तं नानाजीवाण सव्वद्धं ॥ २७६३ ॥ जघन्यां तु लब्धिमाश्रित्याद्यसामायिकत्रयस्यान्तर्मुहूर्त स्थितिः । सर्वविरतिसामायिकस्य तु समयम्, चारित्रपरिणामारम्भसमयानन्तरमेवायुष्कक्षयसंभवात् । देशविरतेरप्येवं कस्माद् न भवति ? इति चेत् । तदयुक्तम् , तस्याः प्रतिनियतप्राणातिपातादिनिवृत्तिरूपत्वात् , तदालोचनपरिणतेश्च जघन्यतोऽप्यान्तौहूर्तिकत्वात् । तदेष लब्धेः स्थितिकालः । उपयोगतस्तु सर्वेषामन्तर्मुहूर्त स्थितिः । नानाजीवानां तु सर्वाणि सर्वाद्धा ॥ इति गाथाद्वयार्थः ॥ २७६३ ॥ _ अथ कतिद्वारमुच्यते । तत्र सम्यक्त्वादिसामायिकानां विवक्षितसमये कति प्रतिपत्तारः, प्रतिपन्नाः, प्रतिपतिता वा भवन्ति ? इत्याह सम्मत्त-देसविरया पलियस्स असंखभागमेत्ताओ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ २७६४ ॥ __सम्यक्त्व-देशविरताः प्राणिनः क्षेत्रपल्योपमस्यासंख्येयभागमात्रा एव । इयमत्र भावना- क्षेत्रपल्योपमस्यासंख्येयभागे या वन्तः प्रदेशास्तावन्त एवोत्कृष्टतः सम्यक्त्व-देशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति । किन्त्वयं विशेषः- देशविरतिप्रतिपतृभ्य: सम्यक्त्वप्रतिपत्तारोऽसंख्येयगुणा इति । जघन्यतस्त्वेको दो वेति । 'सेढीअसंखभागो सुए त्ति' इह संवर्तितचतुरस्त्रीकृतलोकस्यैकप्रादेशिकी सप्तरज्जुप्रमाणा श्रेणिर्गृह्यते । श्रुतमपि सम्यग-मिथ्याश्रुतभेदरहितं सामान्येनाक्षरात्मकमत्राङ्गीक्रियते । ततो यथोक्तायाः श्रेणेरसंख्याततमे भागे यावन्तो नभःप्रदेशास्तावन्तो विवक्षितकाले सामान्यश्रुतस्योत्कृष्टतः प्रतिपत्तारो लभ्यन्ते, जघन्यतस्त्वेको द्वौ वेति । सवारी विजयादिष गतस्य श्रीनच्यते च षटषष्टिः । नरजन्मपूर्वकोटीपृथक्त्वमुस्कर्वतोऽधिकम् ॥ २७६२॥ ज. 'विजयाइसु दो वारे ग'। २ अन्तमुहूर्तमानं जघन्यकं चरणमेकसमयं तु । उपयोगोऽन्तमुहूर्त नानाजीवानां सर्वाहा ॥ २७॥३॥ ३ सम्यक्त्व-देशविरताः पल्यस्यासंख्यभागमात्राः । श्रेण्यसंख्यभागः श्रुते सहसाप्रशो विरतिः ॥ २०६४ ॥ RolloTOOTTOTS ॥१०९८॥ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy