________________
विशेषा०
॥१०९९॥
Jain Education Internat
'सहस्सग्गसो विरइत्ति' कदाचिद् विवक्षितकाले उत्कृष्टतः सहस्रायशः सहस्रपरिगणनया सहस्रपृथक्त्वं विरतेः प्रतिपत्तारो भवन्ति, जघन्यतस्त्वेको द्वौ वेति । तदेवमुक्ताः प्रतिपद्यमानकाः ।। २७६४ ॥
अथ पूर्वप्रतिपन्नान् प्रतिपादयन्नाह -
सम्मत देसविरया पडवण्णा संपई असंखेज्जा | संखेज्जा य चरिते तीसु विपडिया अनंतगुणा ||२७६५ ॥
सम्यक्त्व - देशविरताः पूर्वप्रतिपन्नाः सांमतं वर्तमानसमये जघन्यत उत्कृष्टतश्चासंख्येयाः प्राप्यन्ते, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रतिपद्यमान केभ्योऽसंख्येयगुणाः । संख्येयाचारित्रे प्राक्प्रतिपन्नाः । एते तु स्वस्थाने प्रतिपद्यमानकेभ्यः संख्येयगुणाः । त्रिभ्योऽपि चरण-देश- सम्यक्त्वेभ्य एतानेव चरणगुणान् प्राप्य ये प्रतिपतितास्तेऽनन्तगुणाः । तत्र सम्यग्दृष्टयादिभ्यः प्रतिपद्यमानकेभ्यः पूर्वप्रतिपन्नेभ्यश्च चरणप्रतिपतिता अनन्तगुणाः, देशविरतिप्रतिपतितास्तु तेभ्योऽसंख्येयगुणाः, सम्यक्त्वप्रतिपतिताः पुनस्तेभ्योऽसंख्येयगुणा इति विशेषो द्रष्टव्य इति ।। २७६५ ।।
तदेवमत्र श्रुतवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नाः प्रतिपतिताश्वोक्ताः । अथ श्रुतमाश्रित्याह
पडवण्णा संप परस्स असंखभागमेत्ताओ । सेसा संसारत्था सुयपडिवडिया हु ते सव्वे ॥ २७६६ ॥ सम्यग्-मिथ्यारूपस्य सामान्यतोऽक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सांप्रतं वर्तमानसमये प्रतरस्यासंख्येयभागमात्रा भवन्ति । घनसमचतुरस्त्रीकृतलोकप्रतरस्यासंख्येय भागवर्तिनीध्वसंख्येयासु श्रेणिषु यावन्तो नभः प्रदेशास्तावन्तो विवक्षितसमये सामान्यश्रुतस्य पूर्वप्रतिपन्ना लभ्यन्त इत्यर्थः । श्रुतप्रतिपन्न प्रतिपद्यमान केभ्यस्तु ये शेषाः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि भाषालब्धि प्राप्य प्रतिपतितत्वात् सामान्यश्रुतात् प्रतिपतिता मन्तव्याः । न हि निरादिके संसारे भ्राम्यद्भिस्तैर्भापालब्धिः पूर्व न लब्धेति । ते च सम्यक्त्वादिप्रतिपतितेभ्योऽनन्तगुणा इति स्वयमेव द्रष्टव्यम् । इति नियुक्तिगाथात्रयार्थः ।। २७६६ ।।
सेदी असंखभागो सुए ति' इत्यस्य व्याख्यानं भाष्यकारः प्राह
१ सम्यक्त्व देशविरताः प्रतिपन्नाः संप्रत्यसंख्येयाः । संख्येयाश्च चारित्रे त्रिष्वपि पतिता अनन्तगुणाः || २७६५ ॥ २ श्रुतप्रतिपचाः संप्रति प्रतरस्यासंख्य भागमान्नाः । शेषाः संसारस्याः श्रुतप्रतिपतिताः खलु ते सर्वे ॥ २७६६ ॥
For Personal and Private Use Only
३ गाथा २७६४ |
बृहद्वत्तिः ।
॥१०९९ ॥
www.jainelibrary.org