Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१०५०॥
Jain Education Internal
न्यत्वाज्जीव एवं सामायिकम् । तस्य च जीवपरिणतिरूपस्य सामायिकस्य को विषयः १ इत्याह- सर्वद्रव्याणि । कुतः १ । 'सद्धेयनेय-किरिओवओगड त्ति' यथासंख्यं सम्यक्त्व- श्रुत चारित्रसामायिकानां श्रद्धेयत्वेन, ज्ञेयत्वेन, मवृत्तिनिवृत्तिक्रियया च सर्वद्रव्याणाम्मुपयोगात् । इति गाथाद्वयार्थः ।। २६३६ ।।
तत्रैकस्मिन्नपि तावद् महाव्रतात्मके चारित्रसामायिके निर्मुक्तिकृदेव साक्षात् सर्वद्रव्योपयोगं दर्शयति
पेमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेगदेसेण दव्वाणं ॥ २६३७ ॥
प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने सर्वजीवास्त्रस-स्थावर सूक्ष्मे-तरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति । तथा, द्वितीये मृषावादनिवृत्तिरूपे, चरमे च परिग्रहनिवृत्तिरूपे महात्रते सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि । कथम् ? । 'नास्ति पञ्चास्तिकायात्मको लोकः' इति मृषावादस्य सर्वद्रव्यविषयत्वात् तन्निवृत्तिरूपत्वाच्च द्वितीयत्रतस्य । तथा, मूर्च्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वात्, चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति । 'सेसा इत्यादि' खलु सन्दोऽवधारणे, तस्य च व्यवहितसंबन्धः । ततश्च शेषाणि महाव्रतानि द्रव्याणां तदेकदेशेनैव 'भवन्ति' इति क्रियाध्याहारः । तेषां द्रव्याणामेकदेशस्तदेकदेशस्तेनैव हेतुभूतेन विषयत्वेन भवन्ति, न तु सर्वद्रव्यैरिति भावः । कथम् ? इति चेत् । उच्यते- तृतीयस्य ग्रहणीयधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य तु "रुत्रेसु वा रूवसहगेसु वा दव्त्रेसु" इत्यादिवचनाद् रूप-रूपसह गतद्रव्यसंबन्ध्यत्रझविरतिरूपत्वात्, षष्ठस्य च रात्रिभोजनविरमणस्वरूपत्वादिति । एवममीषां सर्वद्रव्यैकदेशविषयता || इति नियुक्तिगाथार्थः || २६३७ ॥
कुतः पुनरेवम् ? इत्याशङ्क्य भाष्यकारोऽप्याह
मैं सव्वजीव पालणविसयं पाणाइवायवेरमणं । मिच्छा-मुच्छोवरमा सव्वदव्वेषु विणिउत्ता ॥ २६३८ ॥ रूवेसु सहगएसु बंभवयं गहण - धारणिज्जेसु । तइयं, छहवयं पुण भोयणविणिवित्तिवावारं ॥ २६३९ ॥
१ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ॥ २६३७ ॥ २रूपेषु वा रूपसहगेषु वा द्रव्येषु । ३ यत् सर्वजीवपालनविषयं प्राणातिपातविरमणम् । मिथ्या-मूच्छपरमौ सर्वद्रव्येषु विनियुक्त ।। २६३८ ॥ रूपेषु सहगतेषु ब्रह्ममतं ग्रहणीय धारणीयेषु । तृतीयं षष्ठवतं पुनभोजनविनिवृत्तिव्यापारम् ॥ २६३९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०५०॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202