Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 50
________________ विशेषा. बृहदान्तः ॥१०४८|| ततस्तर्हि सर्वसंवरात्मकं चारित्रमेव मोक्षमार्गो नान्यदिति प्रतिपद्यस्व, तस्यैवातिप्रत्यासन्नत्वादिति ।।२६२९।२६३०॥२६३१॥ आह- ननु यद्येतदनन्तरोक्तं नैगमादिनयमतम्, तर्हि स्थितः पक्षः कः ? इत्याह इंद्रुत्थसाहयाई सदहणाइगुणओ समेयाई । सम्मकिरियाउरस्य व इह पुण निव्वाणमिट्ठत्थो ॥२६३२॥ इह नैगमादय एकैकशो व्यस्तान्यपि त्रीणि सामायिकानि मोक्षकारणत्वेनेच्छन्ति, ऋजुमूत्रादयस्तु चारित्रमेवैकं तद्धेतुत्वेन प्रतिपद्यन्ते, इति तावद् नयमतं प्रतिपादितम् । स्थितपक्षे तु त्रीण्यपि ज्ञानादीनि सामायिकानि समुदितान्येवेष्टार्थसाधकानि, न त्वेकम् , व्यस्तानि वा; यथाऽऽतुरस्य वैद्य-भैषजा-ऽऽतुर अतिचारकलक्षणसमुदितचतुरङ्गसम्यक्रिया । सम्यक्त्वेन हि सम्यक्त्वं श्रद्धत्ते, ज्ञानेन तु जानाति, चारित्रेण तु सर्वसावद्याद् विरमतीति । अतः 'सदहणाइगुणउ ति श्रद्धानादिगुणयुक्तत्वात् समुदितेभ्य एव ज्ञानादिभ्य इष्टार्थसिद्धिर्नान्यथा । अत्र प्रयोगः- इहेष्टार्थस्य सामग्येव साधिका न त्वेकं किञ्चित् , तथैवोपलम्भात् , यथाऽऽतुरस्य चतुरङ्गसम्यक्रियासामग्री तदिष्टार्थस्य साधिका । स चेष्टार्थः पुनरिह प्रस्तुते निर्वाणं मोक्षो मन्तव्य इति ॥ तदेवमुक्तमनुमतद्वारम् । तद्भणनेनैव समाप्ता 'उद्दे से निद्देसे य निग्गमे' इत्याद्युपोद्घातप्रथमद्वारगाथा ॥ २६३२ ।। अथ "किं कइविह' इत्यादिद्वितीयद्वारगाथावयवभूतं प्रथमं 'किम्' इत्येतद् द्वारं व्याख्येयम् । अतस्तत्यतिपादकनियुक्तिगाथायाः प्रस्तावनां कुर्वन्नाह किं सामइयं जीवो अर्जावो दव्बमह गुणो होज्जा । किं जीवाजीवमयं होज तदत्यंतरं व त्ति ? ॥२६३३॥ किं सामायिक जीवः, उताजीवः ?, जीवाजीवत्वेऽपि किं द्रव्यं गुणो वा भवेत् , आहोखिज्जीवाजीवमयमुभयम् , अथ जीवाऽजीबो-भयेभ्योऽर्थान्तरं खरविषाण-वन्ध्यापुत्रकल्पं किमपि तद् भवेत् ? ॥ इति द्वादशगाथार्थः ।। २६३३ ॥ अनन्तरोक्ताशङ्कासंभवे सत्याह-- आया खलु सामइयं पच्चक्खायं तओ हवइ आया। तं खलु पञ्चक्खाणं आयाए सव्वदव्वाणं ॥२६३४॥ १ इष्टार्थसाधकानि श्रद्धानादिगुणतः समेतानि । सम्यक्कियाऽऽतुरस्येवेह पुनर्निर्वाणमिष्टार्थः ॥ २६३२ ॥ २ गाथा १४०४ । ३ गाथा १४८५ । ५ किं सामायिक जीवोऽजीवो द्रव्यमथ गुणो भवेत् । किं जीवाजीवमयं भवेत् तदर्थान्तरं वेति ।। २६३३ ।। ५ आत्मा खलु सामायिकं प्रत्याचक्षाणस्ततो भवत्यात्मा । तत् खलु प्रत्याख्यानमापाते सर्वदल्याणाम् ।। २६३४ ॥ १०४८॥ TERROREntre Jan Education Internat For Personal and Price Use Only ARTww.jainmibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202