________________
विशेषा.
बृहदान्तः
॥१०४८||
ततस्तर्हि सर्वसंवरात्मकं चारित्रमेव मोक्षमार्गो नान्यदिति प्रतिपद्यस्व, तस्यैवातिप्रत्यासन्नत्वादिति ।।२६२९।२६३०॥२६३१॥
आह- ननु यद्येतदनन्तरोक्तं नैगमादिनयमतम्, तर्हि स्थितः पक्षः कः ? इत्याह
इंद्रुत्थसाहयाई सदहणाइगुणओ समेयाई । सम्मकिरियाउरस्य व इह पुण निव्वाणमिट्ठत्थो ॥२६३२॥
इह नैगमादय एकैकशो व्यस्तान्यपि त्रीणि सामायिकानि मोक्षकारणत्वेनेच्छन्ति, ऋजुमूत्रादयस्तु चारित्रमेवैकं तद्धेतुत्वेन प्रतिपद्यन्ते, इति तावद् नयमतं प्रतिपादितम् । स्थितपक्षे तु त्रीण्यपि ज्ञानादीनि सामायिकानि समुदितान्येवेष्टार्थसाधकानि, न त्वेकम् , व्यस्तानि वा; यथाऽऽतुरस्य वैद्य-भैषजा-ऽऽतुर अतिचारकलक्षणसमुदितचतुरङ्गसम्यक्रिया । सम्यक्त्वेन हि सम्यक्त्वं श्रद्धत्ते, ज्ञानेन तु जानाति, चारित्रेण तु सर्वसावद्याद् विरमतीति । अतः 'सदहणाइगुणउ ति श्रद्धानादिगुणयुक्तत्वात् समुदितेभ्य एव ज्ञानादिभ्य इष्टार्थसिद्धिर्नान्यथा । अत्र प्रयोगः- इहेष्टार्थस्य सामग्येव साधिका न त्वेकं किञ्चित् , तथैवोपलम्भात् , यथाऽऽतुरस्य चतुरङ्गसम्यक्रियासामग्री तदिष्टार्थस्य साधिका । स चेष्टार्थः पुनरिह प्रस्तुते निर्वाणं मोक्षो मन्तव्य इति ॥ तदेवमुक्तमनुमतद्वारम् । तद्भणनेनैव समाप्ता 'उद्दे से निद्देसे य निग्गमे' इत्याद्युपोद्घातप्रथमद्वारगाथा ॥ २६३२ ।।
अथ "किं कइविह' इत्यादिद्वितीयद्वारगाथावयवभूतं प्रथमं 'किम्' इत्येतद् द्वारं व्याख्येयम् । अतस्तत्यतिपादकनियुक्तिगाथायाः प्रस्तावनां कुर्वन्नाह
किं सामइयं जीवो अर्जावो दव्बमह गुणो होज्जा । किं जीवाजीवमयं होज तदत्यंतरं व त्ति ? ॥२६३३॥
किं सामायिक जीवः, उताजीवः ?, जीवाजीवत्वेऽपि किं द्रव्यं गुणो वा भवेत् , आहोखिज्जीवाजीवमयमुभयम् , अथ जीवाऽजीबो-भयेभ्योऽर्थान्तरं खरविषाण-वन्ध्यापुत्रकल्पं किमपि तद् भवेत् ? ॥ इति द्वादशगाथार्थः ।। २६३३ ॥
अनन्तरोक्ताशङ्कासंभवे सत्याह--
आया खलु सामइयं पच्चक्खायं तओ हवइ आया। तं खलु पञ्चक्खाणं आयाए सव्वदव्वाणं ॥२६३४॥
१ इष्टार्थसाधकानि श्रद्धानादिगुणतः समेतानि । सम्यक्कियाऽऽतुरस्येवेह पुनर्निर्वाणमिष्टार्थः ॥ २६३२ ॥ २ गाथा १४०४ । ३ गाथा १४८५ । ५ किं सामायिक जीवोऽजीवो द्रव्यमथ गुणो भवेत् । किं जीवाजीवमयं भवेत् तदर्थान्तरं वेति ।। २६३३ ।। ५ आत्मा खलु सामायिकं प्रत्याचक्षाणस्ततो भवत्यात्मा । तत् खलु प्रत्याख्यानमापाते सर्वदल्याणाम् ।। २६३४ ॥
१०४८॥
TERROREntre
Jan Education Internat
For Personal and Price Use Only
ARTww.jainmibrary.org