________________
विशेषा० ॥१०४९॥
Jain Educationa Internat
इह सामायिकं कः ? इत्याह- 'आया खलु ति' आत्मैव जीव एव सामायिकम्, न त्वजीवादिरिति भावः ' पच्चक्खायं तओ हवइ आयति' स चात्मा सावद्ययोगं प्रत्याचक्षाणस्तत्प्रत्याख्यानं कुर्वन् प्रत्याख्यानक्रियाकाले सामायिकं भवति, निश्चयनयमतेन 'क्रियमाणं कृतम्' इति क्रियाकाल-निष्ठाकालयोरभेदात् । न केवलं प्रत्याचक्षाणोऽसौ वर्तमानकाले सामायिकं भवति, किन्तूपलक्षणत्वात् कृतप्रत्याख्यानोऽपि सामायिकं भवतीति द्रष्टव्यम् । द्वितीयमात्मग्रहणं किमर्थम् ? इति चेत् । उच्यते- स एव सावद्ययोगप्रत्याख्यानयुक्तः परमार्थत आत्मा, श्रद्धान-ज्ञान-सावद्यनिवृत्तिलक्षणस्वस्वभावावस्थितत्वात्; शेषसंसारो पुनरात्मैव न भवति, प्रचुरघातिकर्मभिस्तस्य स्वाभाविकगुणतिरस्करणादिति ज्ञापनार्थं पुनरात्मग्रहणमिति । 'तं खलु पच्चक्खाणं ति' खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः । ततोऽयमर्थ:- तच्च प्रत्याख्यानं जीवपरिणतिरूपत्वाद् विषयमधिकृत्य 'आवाए सव्वदव्वाणं ति' सर्वेषामपि जीवादिद्रव्याणामापाते आभिमुख्येन समवाये 'निष्पद्यते ' इति शेषः । सर्वाणि जीवादिद्रव्याणि सामायिकप्रत्याख्यानस्य श्रद्धेयज्ञेय-प्रवृत्ति-निवृत्तिभावेनोपयुज्यन्ते, अतस्तत्समवाये तद् निष्पद्यत इत्यभिधीयते । न च सामायिकप्ररूपणे प्रस्तुते तद्विषयनिरूपणमसंबद्धमिति वक्तव्यम्, तदङ्गत्वात्, तत्स्वरूपवत् ॥ इति नियुक्तिगाथार्थः || २६३४ ।।
ननु कस्माज्जीव एव सामायिक नाजीवादिः ? इत्याशङ्कायां भाष्यकारः प्राह
'सदहइ जाणइ जओ पच्चक्खायं तओ जओ जीवो । नाजीवो नाभावो सो च्चिय सामाइयं तेण ॥२६३५॥ यतो यस्मात् सम्यक्त्व श्रुतसामायिकाभ्यां श्रद्धत्ते जानाति च जीव एव, नाजीवादिः, प्रत्याचक्षाणश्च चारित्री यतो जीव एव भवति, नाजीवो नाप्यभावः, श्रद्धान- ज्ञान प्रत्याख्यानानां प्रेक्षावत्येव संभवात्, अजीवा-भावयोश्च प्रेक्षाऽभावात् तेन तस्मात् स एव जीवः सामायिक नाजीवादिरिति ।। २६३५ ॥
'तं खलु पच्चक्खाणं' इत्यादेर्व्याख्यानमाह
१३२
सामाइयभावपरिणइभावाओ जीव एव सामइयं । सद्धेय-नेय-किरिओवओगओ सव्वदव्वाई ॥ २६३६ ॥ 'खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः' इत्युक्तमेव । ततश्च सामायिकभावपरिणतिभावात् सामायिकपरिणामान
१ श्रद्धत्ते जानाति यतः प्रत्याचक्षाणः सको यतो जीवः । नाजीवो नाभावः स एव सामायिकं तेन ॥ २६३५ ॥ ३ सामायिकभावपरिणतिभावाज्जीव एव सामायिकम् । श्रद्धेय-ज्ञेय-क्रियोपयोगतः सर्वद्रव्याणि ॥ २६३६ ॥
For Personal and Private Use Only
२ गाथा २६३४ ।
बृहद्वृत्तिः ।
॥१०४९॥
ww.jainelibrary.org