________________
विशेषा० ॥१०५०॥
Jain Education Internal
न्यत्वाज्जीव एवं सामायिकम् । तस्य च जीवपरिणतिरूपस्य सामायिकस्य को विषयः १ इत्याह- सर्वद्रव्याणि । कुतः १ । 'सद्धेयनेय-किरिओवओगड त्ति' यथासंख्यं सम्यक्त्व- श्रुत चारित्रसामायिकानां श्रद्धेयत्वेन, ज्ञेयत्वेन, मवृत्तिनिवृत्तिक्रियया च सर्वद्रव्याणाम्मुपयोगात् । इति गाथाद्वयार्थः ।। २६३६ ।।
तत्रैकस्मिन्नपि तावद् महाव्रतात्मके चारित्रसामायिके निर्मुक्तिकृदेव साक्षात् सर्वद्रव्योपयोगं दर्शयति
पेमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेगदेसेण दव्वाणं ॥ २६३७ ॥
प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने सर्वजीवास्त्रस-स्थावर सूक्ष्मे-तरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति । तथा, द्वितीये मृषावादनिवृत्तिरूपे, चरमे च परिग्रहनिवृत्तिरूपे महात्रते सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि । कथम् ? । 'नास्ति पञ्चास्तिकायात्मको लोकः' इति मृषावादस्य सर्वद्रव्यविषयत्वात् तन्निवृत्तिरूपत्वाच्च द्वितीयत्रतस्य । तथा, मूर्च्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वात्, चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति । 'सेसा इत्यादि' खलु सन्दोऽवधारणे, तस्य च व्यवहितसंबन्धः । ततश्च शेषाणि महाव्रतानि द्रव्याणां तदेकदेशेनैव 'भवन्ति' इति क्रियाध्याहारः । तेषां द्रव्याणामेकदेशस्तदेकदेशस्तेनैव हेतुभूतेन विषयत्वेन भवन्ति, न तु सर्वद्रव्यैरिति भावः । कथम् ? इति चेत् । उच्यते- तृतीयस्य ग्रहणीयधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य तु "रुत्रेसु वा रूवसहगेसु वा दव्त्रेसु" इत्यादिवचनाद् रूप-रूपसह गतद्रव्यसंबन्ध्यत्रझविरतिरूपत्वात्, षष्ठस्य च रात्रिभोजनविरमणस्वरूपत्वादिति । एवममीषां सर्वद्रव्यैकदेशविषयता || इति नियुक्तिगाथार्थः || २६३७ ॥
कुतः पुनरेवम् ? इत्याशङ्क्य भाष्यकारोऽप्याह
मैं सव्वजीव पालणविसयं पाणाइवायवेरमणं । मिच्छा-मुच्छोवरमा सव्वदव्वेषु विणिउत्ता ॥ २६३८ ॥ रूवेसु सहगएसु बंभवयं गहण - धारणिज्जेसु । तइयं, छहवयं पुण भोयणविणिवित्तिवावारं ॥ २६३९ ॥
१ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् ॥ २६३७ ॥ २रूपेषु वा रूपसहगेषु वा द्रव्येषु । ३ यत् सर्वजीवपालनविषयं प्राणातिपातविरमणम् । मिथ्या-मूच्छपरमौ सर्वद्रव्येषु विनियुक्त ।। २६३८ ॥ रूपेषु सहगतेषु ब्रह्ममतं ग्रहणीय धारणीयेषु । तृतीयं षष्ठवतं पुनभोजनविनिवृत्तिव्यापारम् ॥ २६३९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०५०॥
www.jainelibrary.org