SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जनमत विशेषा वृहद्वा ॥१०५१॥ एवं चारित्तमयं सम्बदव्वविसयं तह सुयं पि । देसे देसोवरई सम्मत्तं सव्वभावेसु ॥ २६४० ॥ व्याख्या- यद् यस्मात् त्रस-स्थावर-मूक्ष्म-स्थूलसर्वजीवपालनविषयं प्राणातिपातविरतिव्रतम्, तस्मात् प्रथमे व्रते सर्वजीवा विषय- स्वेन संगृहीताः । मिथ्या, अनृतम् , मृति पर्यायाः। मूर्छा, गृद्धिः, परिग्रह इत्येकार्थाः । उपरमणमुपरमो नियमः । अयं चौपरमशब्दः प्रत्येकमभिसंबध्यते । ततश्च मिथ्योपरमो मृषावादनियमो द्वितीयव्रतमित्यर्थः। मूझेपरमः परिग्रहनियमश्चरमव्रतमित्यर्थः । एतौ मिथ्योपरम-मूछोपरमौ द्वितीय-चरमव्रतविशेषौ सर्वद्रव्येषु विनियुक्तौ सर्वव्याणि प्रत्येकं तयोर्विषय इत्यर्थः । कथम् ? इति चेत् । उच्यतेशून्यवादे सर्वद्रव्यापलापेन, अन्यथा प्ररूपणेन वा मृषावादस्य सर्वद्रव्यविषयत्वात् , द्वितीयव्रतस्य च तन्निवृत्तिरूपत्वात् सर्वद्रव्यविषयता । पञ्चपव्रतस्यापि 'त्रिभुवनाधिपतिरहम्' 'सर्वमपि मदीयम्' इत्येवंभूतमूर्छानिवृत्तिरूपत्वात् सर्वद्रव्यविषयतेति। रूपेषुतिर्यग्मनुष्य-देवस्त्री-पण्डकादिलक्षणेषु मूर्तवस्तुपु, रूपसहगतेषु च स्तन-नयन-जघनादिषु विषये तत्सेवानिवृत्तिरूपत्वेन ब्रह्मवतं चतुर्थव्रतं प्रवतते, न पुनः सर्वद्रव्येषु । तृतीयं त्वदत्तादानव्रतं ग्रहणीय-धारणीयेषु मृर्तेषु ग्रहण-धारणयोग्येषु हिरण्यद्रविणादिपु विषये तदपहारनित्तिद्वारेण प्रवर्तते, न सर्वत्र । षष्ठमपि रात्रिभोजनविरमणवतं रात्रिभोजनविनिवृत्तिमात्रव्यापारपरतया न सर्व विषयम् । अतस्त्रयाणामप्येतेषां सर्वव्यैकदेशविषयतेति । एवमुक्तप्रकारेणेदं चारित्रसामायिक सामान्येन सर्वद्रव्यविषयं व्रतविभागविशेषविषयमवगन्तव्यम् । तथा, श्रुतसामायिकमपि "सर्वव्येष्वसर्वपर्यायेषु श्रुतम्" इतिवचनात् सर्वद्रव्यविषयमवसेयम् । देशोपरतिर्देशविरतिसामायिकं तु तद्रूपत्वादेव देशे सर्वद्रव्यैकदेशविषयमेव मन्तव्यम् । सम्यक्त्वसामायिकं तु यथावस्थितसमस्तवस्तुस्तोमश्रद्धानरूपत्वात् सर्वद्रव्यविषयमेव बोदव्यम् । अतस्त्रीण्यपि सामायिकानि प्रत्येक समुदितानि च सर्वद्रव्यविषयाणीति सिद्धम् । तत्सिद्धौ च सिद्धमिदम् - 'तं खलु पच्चक्खाणं आवाए सव्वदव्वाणं' इति ॥ २६३८ ।। २६३९ ।। २६४० ।। अथ परमतमाशङ्कय परिहरनाह*किं तं ति पत्थुए किं थ विसयचिंताए, भण्णइ तओ वि । सामाइयंगभावं जाइ जओतेण तग्गहणं॥२६४१॥ किं तत् सामायिकम् ?' इति ज्ञेयत्वेन प्रस्तुते किमत्र विषयचिन्तया ? इति प्रेर्ये भण्यते प्रतिविधीयते-तकोऽपि विषयः 1 एवं चारित्रमयं सर्वव्यविषयं तथा श्रुतमपि । देशे देशोपरतिः सम्यक्त्वं सर्वभावेषु ॥ २६४० ॥ २ गाथा २६३४ । ३ किं तदिति प्रस्तुते किमत्र विषयचिन्तया, भण्यते सकोऽपि । सामायिकाङ्गभावं याति यतस्तेन तन्महणम् ॥ २६५१ ॥ १०५१॥ Jain Educationa.Intern For Personal and Price Use Only www.jaintibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy