SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विषा. ॥१०५२॥ awa04044 सामायिकस्याङ्गभावं हेतुभावं याति यस्मात् , तेन तस्य विषयस्य ग्रहणमिह प्ररूपणं कृतमिति न तस्यामस्तुतत्वमिति ॥ २६४१ ॥ अथ वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाह देव्वं गुणो त्ति भइयं सामइयं सव्वनयमयाधारं । तं दध्व-पजवट्टियनयमयमंगीकरेऊणं ॥२६४२ ॥ इह सामायिक सर्वनयमताधारं सर्वनयविचारविषय इत्यर्थः, ततस्तन्मतेन भाज्यं भजनीयं द्रव्यं गुणो वा भवति । ततस्तद् द्रव्यार्थिक-पर्यायास्तिकनयद्वयमतमङ्गीकृत्य विचार्यते ॥ इति गाथापचकार्थः ॥ २६४२ ॥ कथं विचार्यते ? इत्याह जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवठियनयस्स जीवस्स एस गुणो॥२६४३॥ जीव आत्मा गुणैः प्रतिपन्न आश्रितः, द्रव्यमेवार्थो यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् । इदमुक्तं भवति - गुणाः खल्वौपचारिकत्वादसन्त एव, द्रव्यव्यतिरेकेण तेषामनुपलम्भात् । ततश्च न्यग्भूतगुणग्रामो जीव एव मुख्यवृत्त्या सामायिकं न तु पर्याया इति द्रव्यार्थिकनयो मन्यते । आह-ननु रूपादयो गुणा यदि न सन्ति, तर्हि कथं लोकस्य द्रव्ये तत्पतिपत्तिः । उच्यते-भ्रान्तवेयम् , चित्रे निम्नोनप्रतिपत्तिवत् । इत्यस्य नयस्याभिप्रायः। स एव सामायिकादिगुणः पयोंयार्थिकनयस्य परमार्थतोऽस्ति, न तु जीवद्रव्यम् , यस्पाजीवस्यैप गुणः, जीव इति तत्पुरुषोऽयम् , स चोत्तरपदप्रधानः, यथा तैलस्य | धारा तैलधारेति, न चात्र धारातिरिक्तं किमपि तैलपस्ति । एवं ज्ञानादिगुणातिरिक्त जीवद्रव्यमपि नास्तीति पर्यायार्थिकनयाभिनायः।। इति नियुक्तिगाथार्थः ॥ २६४३ ।। अत्र भाष्यम्इच्छइ जं दव्वनओ दव्वं तच्चमुवयारओ य गुणे । सामइयगुणविसिट्ठो तो जीवो तस्स सामइय।।२६४४॥ . द्रव्यं गुण इति भाज्य सामायिक सर्वनयमताधारम् । तद् द्रव्य-पर्यवास्तिकनयमतमङ्गीकृत्य ॥ २६४२ ॥ २ जीवो गुणप्रतिपनो नयस्य च्यास्तिकस्य सामायिकम् । स एव पर्यवास्तिकनयस्य जीवस्यैष गुणः ॥ २६५३ ॥ ३ इच्छति थद् द्रव्यनयो द्रव्यं तथ्यमुपचारतश्च गुणान् । सामायिकगुणविशिष्टस्ततो जीवस्तस्य सामायिकम् ॥ २६४४ ॥ ॥१०५२॥ । For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy