SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०५३॥ Jain Educatora Internat पेज्जाओ च्चिय वत्थं तच्चं दव्वं च तदुबयाराओ । पज्जवनयस्स जम्हा सामइयं तेण पजाओ || २६४५ || व्याख्या -- यद् यस्माद् द्रव्यार्थिकनयस्तथ्यं सत्यं द्रव्यमेवेच्छति, गुणांस्तूपचारत एवं मन्यते न तु सत्यान्; ततस्तस्मात् सामायिक गुणविशिष्ट उपसर्जनीभूतसामायिका दिगुणो मुख्यतया जीव एव तस्य द्रव्यार्थिकनयस्य सामायिकमिति । यस्मात् पर्याया किनयस्य मतेन पर्याय एवं तथ्यं निरूपचरितं वस्तु, द्रव्यं पुनस्तेष्वेव पूर्वापरीभूत पर्यायेषूपचारतो व्यवहियते, न तु परमार्थतस्तदस्ति तेषु पर्यायेषूपचारस्तदुपचारस्तस्मादिति समासः । तेन तस्मात् कारणात् पर्याय एवास्य मुख्यतया सामायिकम्, न तु जीवद्रव्यमिति ।। २६४४ ।। २६४५ ।। इदमेव पर्यायार्थिकनयमतं युक्तितः समर्थयन्नाह पेज्जायनयमयमिणं पज्जायत्यंतरं कओ दव्वं । उवलंभ व्ववहाराभावाओ खरविसाणं व ? | २६४६ ॥ जह रुवाइ विसिट्ठी न घडो सव्वष्पमाणविरहाओ । तह नाणाइविसिट्ठी को जीवो नामणक्खेओ ? || २६४७ ॥ व्याख्या - पर्यायनयस्येदं मतम् - पर्यायेष्वेव पूर्वापरभावतः सदैव सातत्येन प्रवृत्तेषु भ्रान्त्या द्रव्योपचारः क्रियते, न पुनः पर्यायेभ्योऽर्थान्तरं भिन्नं द्रव्यमस्ति । प्रयोगः- नास्ति परकल्पितं द्रव्यम्, पर्यायेभ्योऽर्थान्तरत्वात् खरविषाणवदिति । अथवा, नास्ति परपरिकल्पितं द्रव्यम्, पर्यायेभ्यो भेदेनानुपलभ्यमानत्वात्, व्यवहारेऽनुपयुज्यमानत्वाद् वा, खरविषाणवदिति, यथा वा रूपरसगन्धस्पर्शेभ्यो विशिष्ट भिन्नो घटो नास्ति, सर्वप्रमाणविरहात् सर्वप्रमाणैर्ग्रहणाभावादित्यर्थः, खरविषाणवदिति तथा तेनैव प्रकारेनानाख्येयः पर्यायविरहेण सर्वोपाख्यारहितो ज्ञानादिभ्यो विशिष्टो व्यतिरिक्तः को नाम जीवः ?, पूर्वोक्तंभ्य एव हेतुभ्यस्तव्यतिरिक्तो नास्ति कश्चनाप्यसाविति भावः ॥ इति गाथाचतुष्टयार्थः || २६४६ ।। २६४७ ॥ अथेदमेव पर्यायार्थिकमतं नियुक्तिकारोऽपि किञ्चित् समर्थयन्नाह - १ पर्याय एव वस्तु तथ्यं द्रव्यं च तदुपचारात् पर्यवनयस्य यस्मात् सामायिकं तेन पर्यायः ।। २६४५ ॥ २ पर्यायनयमतमिदं पर्यायान्तरं कुतो द्रव्यम् ? उपलम्भ-व्यवहाराभावात् खरविषाणमिव || २६४६ ॥ यथा रूपादिविशिष्टो न घटः सर्वप्रमाणविरहात् । तथा ज्ञानादिविशिष्टः को जीवो नामानाख्येयः ! ॥ ६६४७ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥१०५३॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy