SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥१०५४।। Jain Education inte @ @ K उप्पज्जंति वियंतिय परिणमंति य गुणा न दव्वाई । दव्वप्यभवा य गुणा न गुणप्पभवाइं दव्वाई ॥२६४८ ॥ उत्पद्यन्ते व्ययन्ते च, तथा, अनेनोत्पाद-व्ययरूपेण परिणमन्ति गुणाः । चशब्द एवकारार्थः । तस्य चैवं प्रयोग:- गुणा एवोत्पाद व्ययरूपेण परिणमन्ति, न तु द्रव्याणि, अतस्त एवं सन्ति, उत्पाद व्ययपरिणामवस्वात्, पत्रनीलरक्तादिवत्, तद्व्यतिरिक्तस्तु गुणी नास्त्येव, उत्पाद व्यय परिणामरहितत्वात् वन्ध्यासुतादिवदिति । किञ्च, 'दव्वप्यभवा य गुणा न त्ति' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवा गुणा न भवन्ति । चशब्दोऽप्यर्थः । तस्य चैवं संबन्ध: - नापि गुणेभ्यः प्रभवो येषां तानि गुणप्रभवानि द्रव्याणि भवन्ति, नकारस्योभयत्रापि संबन्धात् । ततश्च न कारणत्वम्, नापि कार्यत्वं द्रव्याणाम्, ततस्तेषामभावः, सतः कार्य-कारणरूपत्वादिति । अथवा, अन्यथा व्याख्यायते - द्रव्यप्रभवाश्च गुणा न भवन्ति, गुणप्रभवानि तु द्रव्याणि भवन्ति, पूर्वापरीभावेन प्रतीत्यसमुत्पादसमुत्पन्नगुणसमुदाये द्रव्योपचारमवृत्तेः । तस्माद् गुण एव सामायिकम् ।। इति नियुक्तिगाथार्थः || २६४८ ॥ अत्र भाष्यम् - उपाय - विगमपरिणामओ गुणा पत्तनीलयाइ व्व । संतिन उ दव्वमिट्ठे तव्विरहाओ खपुष्पं व || २६४९॥ ते जप्पभवा जं वा तप्पभवं होज्ज होज्ज तो दृव्वं । न य तं ते चेय जओ परोप्परपच्चयप्पभव || २६५० ॥ व्याख्या - गुणा एव सन्ति, उत्पाद - विगमपरिणामतः- उत्पाद व्ययपरिणामवच्वात्, पत्रनीलतादिवदिति । अनभिमतप्रतिषेधमाह - 'न उ इत्यादि' 'सन्ति' इति बहुवचनव्यत्ययादेकवचनान्तमिहापि संबध्यते, न तु 'द्रव्यमस्ति' इत्यभीष्टं पर्यायार्थिकनयस्य, तद्विरहात् - उत्पाद व्यय परिणामाभावात् खपुष्पवदिति । यदि हि यस्मात् प्रभवो येषां ते यत्प्रभवास्ते प्रसिद्धा नीलतादयो गुणाः, 'जंवा तप्पभवं ति' यद्वा तत्प्रभवं तेभ्यो गुणेभ्यः प्रभवो यस्य तत् तत्प्रभवं गुणेभ्यो व्यतिरिक्तं किमपि वस्तु 'होज्ज त्ति' भवेदित्यर्थः, 'होज्ज तो दव्वं ति' ततस्तदेव वस्तु पारमार्थिकं द्रव्यं भवेदिति; 'न य तमित्यादि' न च तद् गुणानां कारणभूतं कार्यभूतं वा गुणेभ्यो व्यतिरिक्तं किमपि वस्त्वस्ति, यतस्त एव नील-रक्ततादयो गुणाः पूर्वापरीभावतः सातत्येन प्रवृत्ता दृश्यन्ते, न पुनस्तदतिरिक्तं १ उत्पद्यन्ते व्ययन्ते च परिणमन्ते च गुणा न द्रव्याणि । द्रव्यप्रभवाश्च गुणा न गुणप्रभवानि द्रव्याणि ॥ २६४८ ।। २ उत्पाद विगमपरिणामतो गुणाः पत्रनीलतादिरिव । सन्ति न तु द्रव्यमिष्टं तद्विरहात् खपुष्पमिव ।। २६४९ ।। ते यत्प्रभवा यद् वा तत्प्रभवं भवेत् भवेत् ततो द्रव्यम् । न च तत् त एव मताः परस्परप्रत्ययप्रभवा ॥ २६५० ॥ For Personal and Private Use Only बृहद्वात्तः ॥१०५४॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy