SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विशेषा किमपि द्रव्यमीक्ष्यते । कथंभूता गुणाः? इत्याह- 'परोप्परेत्यादि' परसरमन्योन्यं प्रत्ययः प्रत्ययभावः प्रत्ययत्वमित्यर्थः, तस्मात् प्रभवो जन्म येषां ते परस्परप्रत्ययप्रभवाःप्रतीत्यसमुत्पादेनोत्पन्ना इत्यर्थः । तस्माद् न गुणेभ्योऽतिरिक्तं द्रव्यमस्तीति ॥२६४९॥२६५०।। अत्र कश्चिदाचार्यदेशीयः स्वात्मन्येव व्याख्यावेत्तृत्वमवगच्छन्नाह आहावक्खाणमियं इच्छइ दव्वमिह पज्जवनओ वि। किंतचंतविभिन्ने मन्नइ सो दव्व-पज्जाए ॥२६५१॥ उप्पायाइसहावा पज्जाया जं च सासयं दव्वं । ते तप्पभवा न तयं तप्पभवं तेण ते भिन्ना ॥२६५२।। जीवस्स य सामइयं पज्जाओ तेण तं तओ भिन्नं । इच्छइ पज्जायनओ वक्खाणमिणं जहत्थं ति ॥२६५३॥ व्याख्या- व्याख्यानिकामासः कश्चिदाह-ननु पर्यायार्थिकनयमतेन यदिदं सर्वथा द्रव्याभावव्याख्यानं भवद्भिः कृतम् । तदयुक्तमेव, यत इह पर्यायनयोऽपि द्रव्य मिच्छत्येव, किन्तु परस्परमत्यन्तभिन्नावेव द्रव्य-पर्यायावसौ मन्यते न पुनः कथश्चित् , इत्येतावता सिद्धान्तादस्य भेद इति । कुतः पुनः परस्परं द्रव्य-पर्याययोरत्यन्तं भेदः ? इत्यत्र युक्तिमाह- 'उप्पायेत्यादि' यस्मादुत्पादव्ययपरिणामस्वभावाः पर्यायाः, शाश्वतं नित्यं पुनद्रव्यम् । अपरं च, ते गुणास्तत्प्रभवा द्रव्यालुब्धात्मलाभाः, न पुनस्तद् द्रव्यं तत्पभवं गुणेभ्यो लब्धात्मस्वरूपम् । तेन तस्मादुक्तन्यायेन परस्परं भिन्नस्वभावत्वाद् भिन्नास्ते द्रव्य-पर्याया अन्योन्पव्यतिरेकिण इति । यस्माच्च जीवस्य शाश्वतस्य तद् व्यतिरिक्तं सामायिक पर्याया धर्मास्तेन तस्मात् सामायिक ततो जीवादत्यन्तं भिन्नमिच्छति पर्यायनयः । अतो मदीयं व्याख्यानमिदं यथार्थ घटमानकमिति ॥ २६५१ ॥ २६५२ ॥ २६५३ ॥ अत्र मूरिरेतद् व्याख्यानमपाकुर्वनाह जेइ पज्जायनउ च्चिय संमन्नइ दो वि दव्वपज्जाए। दव्वढिओ किमत्थं जइ व मई दो वि जमभिन्ने ॥२६५४॥ CORRECIPESCOR , आहाव्याख्यानमिदमिच्छति दन्यमिह पर्यवनयोऽपि । किन्त्वत्यन्तविभिन्नी मन्यते स द्रव्य-पर्यायौ ।। २६५१ ॥ उत्पादादिस्वभावाः पर्याया यच्च शाश्वतं द्रव्यम् । ते तत्प्रभवा न तत् तत्प्रभवं तेन ते भिन्नाः ॥ २६५२ ॥ जीवस्य च सामायिकं पर्यायस्तेन तत् ततो भिन्नम् । इच्छति पर्यायनयो पाण्यानमिदं यथार्थमिति ॥ २६५३॥ २ यदि पयायनय एव संमन्यते द्वावपि द्रव्य-पर्यायौ । द्रव्यास्तिकः किमर्थ यदिवा मतिविपि यदभिदौ ॥ २६५४ ॥ fo॥१०५५॥ araa For Posod e On
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy