SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ १०५६॥ Jain Educationa Internationa ईच्छ सो तेणोभयमुभयग्गा हे वि सयं पिहृन्भूयं । मिच्छत्तमिहेगंतादेगत्तन्नत्तगाहाओ || २६५५ ॥ व्याख्या - यदि भोः ! पर्यायनय एव द्रव्य-पर्यायौ द्वावपि संमन्यतेऽभ्युपगच्छति, तर्हि द्रव्यार्थिकः किमर्थं 'द्रव्यपरिकल्पना त्वयेष्यते' इति शेषः, पर्यायनयाभ्युपगमेनापि द्रव्यस्य सिद्धत्वादिति । यदि वा एवंभूता मतिः स्यात् परस्य । कथंभूता ? इत्याह-द्वापि द्रव्य-पर्यायौ यद् यस्मादभिन्नौ परस्परमेकत्वमापन्नाविच्छति स द्रव्यार्थिकनय इति संबन्धः तेन तस्मादिदमुभयं द्रव्य-पर्यायापति प्रत्येकं द्रव्य-पर्यायाभ्युपगमेऽपि सतीत्यर्थः । किम् ? इत्याह- 'पिहन्भूयं ति' पृथग्भूतं भिन्नं - द्रव्यार्थिकात् पर्यायार्थिकः, तस्माच्च द्रव्यार्थिको भेदवान्, न पुनरनयोरेकतेति, एकस्य द्रव्य पर्याययोरत्यन्तमभेदाभ्युपगमात् अन्यस्य त्वत्यन्तं तयोर्भेदाभ्युपगमादिति । नापि प्रत्येकं द्रव्य-पर्यायाभ्युपगमेऽप्येतयोः समग्ररूपता, किन्तु मिध्यात्वम् । द्वयोरपि मिध्यादृष्टिरूपता कस्मात् ? । उच्यते- इहैकान्तादेकान्तेनैकत्वग्रहादन्यत्वग्रहाचेति । इदमत्र हृदयम्- द्रव्यार्थिको द्रव्य-पर्यायौ परस्परमभिन्ना विच्छति, द्रव्यादव्यतिरिक्तमेव पर्यायमिच्छति, अत एतस्य विशेषस्य प्राप्तये पर्यायार्थिकाद् द्रव्यार्थिको भिन्नः परिकल्पितः । पर्यायाकस्तु द्रव्य-पर्याय परस्परं भिन्नात्रेव मन्यते, अतोऽसौ द्रव्यार्थिकाद् भिन्न इष्यते । मिथ्यादृष्टीच प्रत्येकमेतौ द्रव्यार्थिको द्रव्य-पर्याययोरेकत्वग्रहात्, पर्यायार्थिकस्तु तयोरन्यत्वग्रहादिति ।। २६५४ ।। २६५५ ।। एवंभूता यदि परस्य मतिस्तदा प्रतिविधीयते । कथम् ? इत्याह- गनणु दव्वं गुणत्ति पज्जायवयणमित्तमियं । तम्हा तं दव्वं वा गुणो व दव्वट्ठियग्गाहो। २६५६ ॥ इ भिन्नोभयगाही पज्जायनओ तदेगपक्खम्मि | अविरुद्धं चैव तयं किमओ व्यट्ठियनएण ? || २६५७ ॥ व्याख्या- ननु द्रव्य-पर्याययोरेकत्वे स्वदभिनायतो द्रव्यार्थिकेनेष्यमाणे 'द्रव्यं' 'गुणः' इति ध्वनिद्वयमिदमेकार्थवाचकत्वादिन्द्रपुरन्दरादिध्वनिवत् पर्यायवचनमात्रमेव स्यात् । तस्मात् तत् सामायिकं द्रव्यं वा गुणो वेति द्रव्यार्थिकनयग्रहः स्यात् न पुनस्तद् द्रव्यमेवेति तद्ग्रहो भवेत् ; न चैवमिष्यते, द्रव्यार्थिकनयमतेन द्रव्यरूपस्यैव तस्य प्रसिद्धेरिति । तथा, यदि परस्परमत्यन्तभिन्नस्य द्रव्य १ इच्छति स तेनोभयमुभयग्रहेऽपि सति पृथग्भूतम् । मिथ्यात्वमिहैकान्तादेकत्वान्यत्वग्रहात् ।। २६५५ ॥ २ एकत्वे ननु द्रव्यं गुण इति पर्यायवचनमात्रमिदम् । तस्मात् तद् द्रव्यं वा गुणो वा द्रव्यास्तिकग्रहः ॥ २६५६ ॥ यदि भिन्नभयग्राही पर्यायनयस्तदेकपक्षे अविरुद्वमेव तत् किमतो दुव्यार्थिकनयेन ? ।। २६५७ ॥ For Personal and Private Use Only poooooooobepage OOOOOOOOOOOOOC बृहद्वृत्तिः । ।। १०५६।। www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy