________________
विशेषा
॥१०५७॥
पद भिन्नं तत् , इस इत्याह- 'उभय ग्रह सर्व घर
पर्यायोभयस्य ग्राहकः पर्यायनयस्त्वयेष्यते, तदा हन्त ! एकस्मिन् द्रव्यपक्षे तत् सामायिकमविरुद्धमेव 'द्रव्यत्वेन' इति शेषः, 'द्रव्यं सामायिकम्' इति द्रव्यपक्षे गायनयमतेनाप्यविरोधतः सिद्धमेवेत्यर्थः, अतः किं द्रव्यार्थिकनयेनोपन्यस्तेन ? इति ॥२६५६।२६५७॥ बृहद्वत्तिः ।
तस्माद् यथाविहितमेव व्याख्यानं श्रेय इति दर्शयन्नाह
तम्हा किं सामइयं हवेज्ज दव्वं गुणो त्ति चिंतेयं। दवट्ठियस्स दव्वं गुणो य तं पज्जवनयस्स ॥ २६५८ ॥
इहरा जीवाणन्नं दन्वनयस्सेयरस्स भिन्नं ति । उभयनओभयगाहे घडेज्ज नेक्केवगाहम्मि ॥ २६५९ ॥
व्याख्या- तस्मात् किं द्रव्यं गुणो वा सामायिकम् ? इतीयं चिन्तात्र प्रस्तुता । अस्यां तु चिन्तायामुच्यते- द्रव्यार्थिकनयस्याभिप्रायेण द्रव्यम् , पर्यायार्थिकनयस्य मतेन गुणश्च तत् सामायिकमिति । इतरथाऽन्यथा पुनद्रव्यार्थिकस्य जीवादनन्यत् सामायिकम् , इतरस्य तु पर्यायार्थिकस्य जीवाद् भिन्नं तत् , इत्येवमेकैकस्य नयस्य ग्रहे भ्युपगमे सति 'जैइ पज्जायनउ चिय' इत्यादि पूर्वोतयुक्तिभ्यो न 'घटते' इति शेषः। कथं पुनस्तर्हि घटेत ? इत्याह- 'उभयनओभयगाहे घडेज त्ति' उभयनयस्य द्रव्यार्थिकपर्यायार्थिकलक्षणस्य नयद्वयस्य मिलितस्य द्रव्य-गुणरूपसामायिकलक्षणस्योभयस्य ग्रहे सर्व घटेत । इदमुक्तं भवति- यदि द्रव्यनयो द्रव्यरूपं, पर्यायनयस्तु पर्यायरूपं सामायिकमिच्छति, तदित्थमुभयोरपि नययोः समुदितयोर्यथोक्तोभयग्रहे सर्व सुस्थं भवति, न पुनरेकैकस्य। नयस्योभयग्रहे सतीति ॥ २६५८ ॥ २६५९ ॥ अथ यदुक्तम्- 'सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो' इति, एतदवष्टम्भेन पुनरपि परः पाह
नैणु भणियं पज्जायट्ठियस्स जीवस्स एस हि गुणो त्ति । छठ्ठीए तओ दव्वं सोतं च गुणो तओ भिन्नो॥२६६०॥
ननु 'सो चेव पन्जव-' इत्यादौ नियुक्तिगाथोत्तरार्धे भणितं प्रतिपादितं नियुक्तिकृता पर्यायार्थिकनयमतेन जीवस्यैष सापायिकलक्षणो गुण इति । हिर्यस्मादेवमुक्तम् , ततस्तस्माजीवस्यैव गुण इति षष्ठया पष्ठीनिर्देशादवसीयते- 'दव्वं सो त्ति' स जीवो द्रव्यं,
१ तस्मात् किं सामायिकं भवेद् गव्यं गुण इति चिन्तयम् । द्रव्यार्थिकस्य द्रव्यं गुणश्च तत् पर्यवनयस्य ॥ २६५८ ॥ इतरथा जीवानन्यद् द्रव्यनयस्येतरस्य भिन्नमिति । उभयनयोभयग्रहे घटेत नैकैकमहे ।। २६५९ ॥ २ गाथा २६५४ ।
fou१०५७॥ ३ गाथा २६४३ । ७ ननु भणितं पर्यायार्थिकस्य जीवस्यैष हि गुण इति । षष्ट्या ततो द्रव्यं स तच गुणो ततो भिन्नः ॥ २६६.॥
EDU११२
Jan Education inte
For Personal and Price Use Only